________________
प्रमेयकमलमार्तण्डे २५४
[२. प्रत्यक्षपरि० न च वक्तव्यम्-'पुनःपुनओव्यमानं भावनाप्रकर्षपर्यन्ते योगिज्ञानरूपतामासादयत्तद्वैशद्यभार भविष्यति। दृश्यते चाभ्यास. बलात्कामशोकाधुपप्लुतज्ञानस्य वैशद्यम्' इति तद्वदस्याप्युपाटात. त्वप्रसङ्गात् । ५ किञ्च, अस्याखिलार्थग्रहणं सकलज्ञत्वम्, प्रधानभूतकतिप. यार्थग्रहणं वा? तत्राद्यपक्षे क्रमेण तद्ब्रहणम् , युगपद्वा? न ताव. क्रमेण; अतीतानागतवर्तमानार्थानां परिसमात्यभावात्तज्ज्ञानस्यायपरिसमाप्तेः सर्वज्ञत्वायोगात् । नापि युगपत् ; परस्परविरु
द्धशीतोष्णाद्यर्थानामेकत्र ज्ञाने प्रतिभासासम्भवात् । सम्भवे वा १० प्रतिनियतार्थस्वरूपप्रतीतिविरोधः।।
किञ्च, एकक्षण एवाशेषार्थग्रहणाद् द्वितीयक्षणेऽकिञ्चिज्ज्ञः स्यात् । तथा परस्थरागादिसाक्षात्करणाद्रागादिमान् , अन्यथा सकलार्थसाक्षात्करणविरोधः।
नापि प्रधानभूतकतिपयार्थग्रहणम् ; इतरार्थव्यवच्छेदेन एते१५पामेव प्रयोजननिष्पादकत्वात्प्राधान्यम्' इति निश्चयो हि सक
लार्थज्ञाने सत्येव घटते, नान्यथा । तच्च प्रागेव कृतोत्तरम् ।। __ कथं चातीतानागतग्रहणं तत्स्वरूपासम्भवाद् ? असतो ग्रहणे
मिरिकशानवत्प्रामाण्याभावः। सत्त्वेन ग्रहणेऽतीतादेर्वर्तमानत्वम् । तथा चान्यकालस्यान्यकालतया वस्तुनो ग्रहणात्तज्ज्ञान२० स्याऽग्रामाण्यम्।
कथं चासौ तद्भाह्याखिलार्थाज्ञाने तत्कालेप्यसर्वातुं श. क्यते ? तदुक्तम्
"सर्वज्ञोय मिति ह्येतत्तत्कालेपि बुभुत्सुभिः । तज्ज्ञानशेयविज्ञानरहितैर्गम्यते कथम् ॥१॥ कल्पनीयाश्च सर्वज्ञा भवेयुर्वहवस्तव । य एव स्यादसर्वज्ञः स सर्वशं न बुद्धंयते ॥२॥ सर्वशो नावबुद्धश्च येनैव स्यान्न तं प्रति । तद्वाक्यानां प्रमाणत्वं मूलाज्ञानेऽन्यवाक्यवत् ॥ ३॥"
[मी० श्लो० चोदनासू० श्लो० १३४-३६ ] इति ।
१ आगमानुमानजनितास्पष्टं शानम् । २ व्याहत । ३ सर्वशज्ञानस्य । ४ मोक्षलक्षण । ५ सर्वशः। ६ तेन सर्वज्ञशानेन । ७ तर्हि सर्वज्ञेनैव सर्वशो शायते इत्युक्ते सत्याह । ८ यतः। ९ मूलस्य वाक्यकारणस्य सर्वशलक्षणस्य । १० अन्यस्य रथ्यापुरुषस्य।