________________
सू० २११२] सर्वज्ञत्ववादः
धर्मज्ञत्वनिषेधे चान्याशेपार्थप्रत्यक्षत्वेपि न प्रेरणाप्रामाण्यप्रतिबन्धो धर्मे तस्या एव प्रामाण्यात् । तदुक्तम्
"सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् । केवलागमगम्यत्वं लप्स्यते पुण्यायोः ॥ १॥" [ ] धर्मशत्वनिषेधस्तु केवलोत्रोपयुज्यते।
५ सर्वनन्यद्विजानस्तु पुरुषः केर्ने वार्यते ॥ २॥" [ ] किच, अस्य ज्ञानं चक्षुरादिजनितं धर्मादिग्राहकम् , अभ्यासजनितं वा स्यात्, शब्दप्रभवं वा, अनुमानाविभूतं वा ? प्रथमपाक्षे धर्मादिग्राहकत्वायोगश्चक्षुरादीनां प्रतिनियतरूपादिविषयत्वेन तत्प्रभवज्ञानस्याप्यत्रैव प्रवृत्तेः। अथाभ्यासजनितम् , ज्ञानाभ्या १० सादिप्रकर्पतरतमादिक्रमेण तत्प्रकर्षसम्भवे सकलखमावातिशयपर्यन्तं संवेदनमवाप्यते; इत्यपि मनोरथमात्रम् ; अभ्यासो हि कस्यचित्प्रतिनियतशिल्पकलादौ तदुपदेशाद् ज्ञानाञ्च दृष्टः । न चाशेपार्थोपदेशो ज्ञानं वा सम्भवति । तत्सम्भवे किमभ्यासप्रयासेनाशेपार्थज्ञानस्य सिद्धत्वात् । अन्योन्याश्रयश्च-अभ्यासात्तज्ज्ञा-१५ नम् , ततोऽभ्यास इति । शब्दप्रभवं तदित्यप्ययुक्तम् ; परस्पराश्रयणानुपङ्गात्-सर्वज्ञप्रणीतत्वेन हि तत्प्रामाण्येऽशेषार्थ विषयज्ञानसम्भवः, तत्सम्भवे चाशेषज्ञस्य तथाभूतशब्दप्रणेतृत्वमिति। अभ्युपगम्यते च प्रेरणाप्रभवज्ञानवतो धर्मशत्वम् , - "चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्म व्यवहितं विप्रेकृष्टमि-२० त्येवंजातीयकमर्थमवगमयितुमलं नान्यत् किंचनेन्द्रियादिकम्" [शावरभा० ११११२ ] इत्यभिधानात् ।
अनुमानाविभूतमित्यप्रसङ्गतम् ; धर्मादेरतीन्द्रियत्वेन तज्ज्ञापकलिङ्गस्य तेन सह सम्वन्धासिद्धरसिद्धसम्वन्धस्य चाज्ञापकत्वात्।
किञ्च, अनुमानेनाशेषज्ञत्वेऽस्मदादीनामपि तत्प्रसङ्गः, 'भावाभावोभयरूपं जगत्प्रमेयत्वात्' इत्याद्यनुमानस्यास्सदादीनामपि भावात् । अनुमानागमज्ञानस्य चास्पष्टत्वात्तजनितस्याप्यवैशद्यसम्भवान्न तज्ज्ञानवान्सर्वज्ञो युक्तः। . १ वैदिकी। २ प्रेरणाप्रामाण्ये। ३ धर्माधर्माभ्यामन्यत् । ४ न केनापि । ५ सर्वशस्य । ६ सकलार्थग्रहणलक्षणातिशय । ७ आगम । ८ धर्मादिग्राहकं सर्वशज्ञानम् । ९ अशेषार्थविषय । १० मन्वादेः। ११ कालेन । १२ देशेन । १३ अनुमानादिशानजनितास्पष्टज्ञानवान् । 1 इमे कारिके तत्त्वसंग्रहे (पृ० ८१६,८२०) पूर्वपक्षतया विद्यते।
प्र. क० मा० २२