________________
२५२
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० "यत्राप्यतिशयो दृष्टः ल खार्थानतिलङ्घनात् । दूरसूक्ष्मादिष्टौ स्यान्न रूपे श्रोत्रवृत्तितः (ता)॥१॥
[मी० श्लो० चोदनासू० श्लो० ११४] येपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ २॥ प्रायोपि हि नरः सूक्ष्मानर्थान्दृष्टुं क्षमोपि सन् । सजातीरनतिक्रामन्नतिशेते परानरान् ॥३॥ ऍकशास्त्रविचारेषु दृश्यतेऽतिशयो महान् । न तु शास्त्रान्तरज्ञानं तन्मात्रेणैव लभ्यते ॥४॥॥ ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयो। प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये ॥५॥ ज्योतिर्विच्चे प्रकृष्टोपि चन्द्रार्कग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति ॥६॥ तथा वेदेतिहासादिज्ञानातिशयवानपि । न स्वर्गदेवताऽपूर्वप्रत्यक्षीकरणे क्षमः॥ ७॥ [ देशहस्तान्तरं व्योम्नि यो नामोत्प्लुत्य गच्छति । न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥ ८॥"[ ] इति।
प्रसङ्गविपर्ययाभ्यां चास्याशेषार्थविषयत्वं बाध्यते; तथाहि२० सर्वज्ञस्य ज्ञान प्रत्यक्षं यद्यभ्युपगम्यते तदा तद्धर्मादिग्राहकं न
स्याद्विद्यमानोपलम्भनत्वात् । विद्यमानोपलम्भनं तत् सत्सम्प्रयोगजत्वात् । सत्सम्प्रयोगजं तत्, प्रत्यक्षशब्दवाच्यत्वादस्मदादिप्रत्यक्षवत् । तद्धर्मादिग्राहकं चेत् न विद्यमानोपलम्भनं धर्मादे
रविद्यमानत्वात् । तत्त्वे चासत्सम्प्रयोगजत्वे चाऽप्रत्यक्षशब्देवा२५च्यत्वम् ।
१ गृद्धादीन्द्रिये। २ क्रियमाणायाम् । ३ इन्द्रियाणामतिशयो नास्ति चेन्मा भूत्पुरुषणां भविष्यतीत्युक्ते सत्याह । ४ अर्थग्रहणशक्तिः प्रशा। ५ मेधा पाठग्रहण. शक्तिः। ६ पूर्वोक्तं भावयति । ७ तत्र दृष्टान्तमाह । ८ दृष्टान्तं भावयति । ९ न्यासपर्यन्तम् । १० प्रकृष्टा भवति । ११ पुनरपि दृष्टान्तं भावयति । १२ चकारो दृष्टान्त. समुच्चये। १३ अदृष्ट। १४ लोकप्रसिद्धं दृष्टान्तमाह । १५ प्रसङ्गविपर्यययोर्लक्षणमुक्तरपक्षे वदिष्यति । १६ सर्वशशानस्य । १७ जनादिभिः सर्वशवादिभिः । १८ पुण्यपापादि । १९ इति प्रसङ्गेन तस्याशेषार्थविषत्वं बाध्यते । २० तस्य परोक्षत्वमित्यर्थः । २१ इति विपर्ययेण तस्याशेषार्थविषयत्वं बाध्यते । २२ अविद्यमानोपलम्भनत्वे । .
1 इमा अशेषाः कारिकाः तत्त्वसंग्रहे (पृ० ८२५-२६) पूर्वपक्षतया उपलभ्यन्ते ।