________________
२५१
सू० २।१२.].: .सर्वज्ञत्ववादः :
ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदाम् । ... त्रयीविदाधितग्रन्थास्ते वेदप्रभवोक्तयः ॥ ११॥"[ . ] इति । . न च प्रमाणान्तरं लदुपलमकं लवंशस्य साधकमस्ति । 'मा भूत्येदानीन्तनासदादिजनाना (नां) सर्वज्ञस्य साधकं५ प्रत्यक्षायन्यतमं देशान्तरकालान्तरवर्तिनां कैपाश्चिद्भविष्यतीति चाऽयुक्तम् । “यजातीयः प्रमाणैस्तु यजातीयार्थदर्शनम् । दृष्टं सम्प्रति लोकस्य तथा कालान्तरेप्यभूत् ॥"
. [मी० श्लो० चोदनासू० श्लो० ११३] १० इत्यभिधानात् । तथा हि-विवादाध्यासिते देशे काले च प्रत्यक्षादिप्रमाणम् अत्रत्येदानीन्तनप्रत्यक्षादिग्राह्यसजातीयार्थग्राहक तद्विजातीयसर्वज्ञाद्यर्थग्राहकं वा न भवति प्रत्यक्षादिप्रमाणत्वात् अत्रत्येदानीन्तनप्रत्यक्षादिप्रमाणवत् । · ननु च यथाभूतमिन्द्रियादिजनितं प्रत्यक्षादि सर्वज्ञाद्यर्थासा-१५ धकं दृष्टं तथाभूतमेव देशान्तरे कालान्तरे च तथा साध्यते, अन्यथाभूतं वा? तथाभूतं चेसिद्धसाधनम् । अन्यथाभूतं चेदप्रयोजको हेतुः; जगतो वुद्धिमत्कारणत्वे साध्ये संनिवेशविशिष्टत्वादिवत् तदसाम्प्रतम् ; तथाभूतस्यैव तथा साधनात् । न च सिद्धसाधनमन्यादृर्शप्रत्यक्षाद्यभावात् । तथा हि-विवादा-२० पन्नं प्रत्यक्षादिप्रमाणमिन्द्रियादिसामग्रीविशेषानपेक्षं न भवति प्रत्यक्षादिप्रमाणत्वात्प्रसिद्धप्रत्यक्षादिप्रमाणवत् । न गृह्नवराहपिपीलिकादिप्रत्यक्षेण सन्निहितदेशविशेषानपेक्षिणा नक्तञ्चरप्रत्यक्षेण वालोकानपेक्षिणानेकान्तः, कात्यायनाद्यनुमानातिशयेन, जैमिन्याद्यागमातिरान ; तखातीन्द्रिवादिप्रणिधानसामग्री २५ विशेषमन्तरेणासम्भवात्, अतीन्द्रियाननुमेयाधाविषयत्वेन खातिलङ्घनाभावात् । तथा चोक्तम्
१ सिद्धाः प्रसिद्धाः। २ मध्ये। ३ त्रयीविद्भिराश्रितो ग्रन्थो येषां ते । ४ वेदात्प्रभव उत्पत्तिासामुक्तीनां ता वेदप्रभवाः, वेदप्रभवा उक्तयो येषां मन्वादौनां ते । ५ रूपादिमदत्यासन्नादि । ६ अस्सदादिप्रमाणसदृशप्रमाणप्रकारेण । ७ सर्वशवादी व्रते । ८.अतीन्द्रियप्रत्यक्षम् । ९ सपक्षव्यापकपक्षव्यावृनः प्रतिनियतार्थअाहित्वे सतीति विशेषणजनितोपाध्याहितसम्बन्धो हेतुरप्रयोजकः । १० अक्रियादशिनोपि कृतवुद्धुत्पादकत्वे सति । ११ अतीन्द्रियं । .१२. देशान्तरकालान्तरवत्ति । १३ अत्रत्येदानीन्तनं प्रसिद्धम् । १४ वररुचि । १५ अश्रुतवेदार्धलक्षण । १६ एका: अता । १७ स्वस्थ प्रत्येक्षादेः । -':... . . . . . " .