________________
२५०
प्रमेयकमलमार्तण्डे २..प्रत्यक्षपारिक नाप्यर्थापत्तितस्तत्सिद्धिः, सर्वशसद्भावमन्तरेणानुपपद्यमा. नस्य प्रमाणपट्कविज्ञातार्यस्य कस्यचिदभावात् । धर्माद्युपदेशस्य बहुजनपरिगृहीतस्यान्यथापि भावात् । तथा चोक्तम्- ' , "सर्वशो दृश्यते तावन्नेदानीममदादिभिः ।
[मी० श्लो० चोदनासू० लो० ११७ दृष्टो न चैकदेशोस्ति लिङ्गं वा यो मापयेत् ॥ १॥[...] न चागमविधिः कश्चिन्नित्यः सर्वज्ञवोथकः। न च मन्त्रार्थवादानां तात्पर्यमवकल्पते ॥ २॥ न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते । न चानुवादितुं शक्यः पूर्वमन्यैरवोधितः॥३॥ अनादेरागमस्याओं न च सर्वज्ञ आदिमान् । कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥ ४॥ अथ तद्वचनेनैव सर्वज्ञोऽन्यः प्रतीयते। प्रकल्पेत कथं सिद्धिरन्योन्याश्रययोस्तयोः? ॥ ५॥ सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता। कथं तदुभयं सियेत् सिद्धमूलान्तरादते ॥६॥[ 1 असर्वशप्रणीतात्तु वचनान्मूलँवर्जितात् । सर्वशमवगच्छन्तः खवाक्यात्किन्न जानते ? ॥७॥[ ] सर्वज्ञसदृशं कञ्चिद्यदि पश्येम सम्प्रति। . उपमानेन सर्वशं जानीयाम ततो वयम् ॥ ८॥ [...] उपदेशो हि वुद्धादेर्धर्माऽधर्मादिगोचरः।। अन्यथा नोपपद्येत सार्वज्ञं यदि नाऽभवत् ॥९॥[...] वुद्धादयो ह्यवेदज्ञास्तेषां वेदादसम्भवः।
उपदेशः कृतोऽतस्तैर्व्यामोहादेव केवलात् ॥ १०॥[ . ] . १ सर्वशाभावेपि । २ सम्बन्ध्यन्तरं हेतुः । ३ लिङ्गं भूत्वेति शेषः । ४ सर्वशम् । ५ प्रशंसामनभावनादिः। ६ घटते। ७ यागार्थ । ८ आगमैः। ९ आगमात् । १० अनुभाषणात् । ११ प्रमाणान्तरैः। १२ सर्वशः। १३ असदादिभिः । १४ सर्वशागमसत्यार्धयोः। १५ कथमन्योन्याश्रय इत्युक्ते सत्याह। १६ बसः। १७ आगमप्रामाण्यलक्षणात् मूलादन्यत् सर्वशंप्रामाण्यलक्षणं मूलान्तरं वा द्रष्टव्यम् । १८ मूलं प्रामाण्यम् । १९ सर्वशसदृशदर्शनात् । २० भूत्वा । २१ न विद्यते संभव उत्पत्तिर्यस्योपदेशस्य । २२ अशानात्। ' : 1 'नच मंत्रार्थवादानां... न. चानुवदितुं शक्यः' इति श्लोकद्वयं विना सर्वेऽपि लोकाः तत्त्वसंग्रहे. (१० ८३०,८३१,८३२,८३८,८३९,८४०) पूर्वपक्षे कुमारिलकत्त॒कस्वेनोपलभ्यन्ते।