________________
सू० २।१२] सर्वज्ञत्ववादः
"यदि षनिःप्रमाणैः स्यात्सर्वज्ञः केन वार्यते । एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ॥ नूनं स चक्षुषा सर्वान् रसादीन्प्रतिपद्यते।" [ मी० श्लो० चोद. नासू० श्लो० १११-१२] इत्यभिधानात् ।
किञ्च, प्रमेयत्वं किमशेषज्ञेयव्यापिप्रमाणप्रमेयत्वव्यक्तिलक्षण-५ मभ्युपगम्यते, असदादिप्रमाणप्रमेयत्वव्यक्तिक रूपं वा स्यात् , उभयव्यक्तिसाधारणसामान्यस्वभावं वा? प्रथमपक्षोऽयुक्तः, विवादाध्यासितपैदार्थेषु तथाभूतप्रमाणप्रमेयत्वस्यासिद्धत्वात् , अन्यथा साध्यस्यापि सिद्धेहेतूपादानमपार्थकम् । सन्दिग्धान्वयश्चायं हेतुः स्यात्; तथाभूतप्रमाणप्रमेयत्वस्य दृष्टान्तेऽसिद्धत्वात् । १० द्वितीयपक्षेऽसिद्धो हेतुः, अस्मदादिप्रमाणप्रमेयत्वस्य विवादगोचंरार्थेष्वसम्भवात् । सम्भवे वा ततस्तथाभूतप्रत्यक्षत्वसिद्धिरेव स्यात् । तत्र चाविवादान्न हेतूपन्यासः फलवान् । नाप्युभयप्रमेयत्वव्यक्तिसाधारणं प्रमेयत्वसामान्यं हेतुः, अत्यन्त विलक्षणांतीन्द्रियेन्द्रियविषयप्रमाणप्रमेयत्वव्यक्तिद्वयसाधारणसामान्य-१५ स्यैवासम्भवात् । तन्नानुमानातत्तिद्धिः ।
नाप्योगमात् : सोपि हि नित्यः, अनित्यो वा तत्प्रतिपादकः स्यात् ? न तावनित्यः; तत्प्रतिपादकस्य तस्याभावात् , भावेपि प्रामाण्यासम्भवात् कार्येऽथै तत्प्रामाण्यप्रसिद्धः। अनित्योऽपि किं तत्प्रेणीतः, पुरुषान्तरप्रणीतो वा? प्रथमपक्षेऽन्योन्याश्रयः-२० सर्वज्ञप्रणीतत्वे तस्य प्रामाण्यम्, ततस्तत्प्रतिपादकत्वमिति । नापि पुरुषान्तरप्रणीतः। तस्योन्मत्तवाक्यवप्रामाण्यात् । तन्नागमादप्यस्य सिद्धिः।
नाप्युपमानात् । तत्खलूपमानोपमेययोरेनवयवेनाध्यक्षत्वे सति सादृश्यावलम्वनमुदयमासादयति; नान्यथातिप्रसङ्गात्। न चोप-२५ मानभूतः कश्चित्सर्वज्ञत्वेनाध्यक्षतः सिद्धो येन तत्सादृश्यादन्यस्य सर्वज्ञत्वमुपमानात्साध्येत ।
१ जैनादिभिः । २ प्रत्यक्षरवाप्रत्यक्षवेन कारणेन विवादाध्यासितत्वम् । ३ सूक्ष्मादिषु । ४ विवादाध्यासितपदार्थेषु अशेषज्ञेयव्यापिप्रमाणप्रमेयत्वं सिद्धं चेत् । ५ असाधारणानकान्तिकः। ६ अशेषज्ञेयप्रमाणप्रमेयस्वादित्ययम् । ७ पावकादौ । ८ अस्सदादिप्रमाणप्रमेयत्वादिति हेतुः । ९ सूक्ष्मादिषु । १० अस्सदादिप्रमाणभूत । ११ अतीन्द्रियश्चेन्द्रियविषयश्च तेषां ग्राहकप्रमाणम् । १२ सर्वश। १३ हिरण्यगर्भ प्रकृत्य सर्वश इति । १४ अग्निष्टोमेन यजेत स्वर्गकाम इति क्रियमाणेऽथे। १५ सर्वश। १६ साकस्येन । १७ भूभवनवद्धिंतोस्थितस्योपमानशनप्रसङ्गात् । १८ तस्योपमानभूतसर्वशस्य । १९ नुः ।