SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ २४८ प्रमेयकमलमार्तण्डे २. प्रत्यक्षपरि०, नुमानेन, अनवस्थेतरेतराश्रयदोषानुषङ्गात् । न चात्र धर्मा प्रत्यक्षेण प्रतिपन्नः, अनमज्ञानवत्यत्यक्षेऽध्यक्षस्थाप्रवृत्तः । प्रवृत्ती वाध्यक्षेणैवाल्या प्रतिपन्नत्वान्न किञ्चिद्गुमानेन । नाप्यनुमानेन: हेतोः पक्षधर्मतावगममन्तरेणानुमानस्यैवाप्रवृत्त । न चाप्रतिपन्ने ९धर्मिणि हेतोस्तत्सम्वन्धावगमः । नाप्यप्रतिपन्नपक्षधर्मत्यो हेत: प्रतिनियतसाध्यप्रतिपत्यङ्गम् । किञ्च, सत्तासाधने सर्वो हेतुरसिद्धविरुद्धानकान्तिकत्वलक्षणां यीं दोषजाति नातिवर्तते । तथाहि-सर्वज्ञसत्त्वे साध्ये भावधर्मों हेतुः, अभावधर्मो वा स्यात्, उत उभयधर्मो वा? प्रथमपक्षेऽसिद्धः, १० भावेऽसिद्धे तद्धर्मस्य सिद्धिविरोधात् । द्वितीयपक्षे तु विरुद्धः; भावे साध्येऽभावधर्मस्याभावाव्यभिचारित्वेन विरुद्धत्वात् । उभयधर्मोप्यनैकान्तिकः सत्तासाधने; तदुभयव्यभिचारित्वात् । अपि चाविशेषेण सर्वज्ञः कश्चित्साध्यते, विशेषेण वा? तत्राद्यपक्षे विशेषतोऽहत्प्रणीतागमाश्रयणमनुपपन्नम् । द्वितीय१५ पक्षे तु हेतोरपरसर्वज्ञस्याभावेन दृष्टान्तानुवृत्त्यसम्भवादसाधारणानकान्तिकत्वम् । किञ्च, यतो हेतोः प्रतिनियतोऽर्हन् सर्वज्ञः साध्यते ततो वुद्धोपि साध्यतां विशेषाभावात्, न चात्र सर्वज्ञत्वसाधने हेतुरस्ति। २० यदप्युच्यते-सूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षाः प्रमेयत्वात्पावकादिवत् तदप्युक्तिमात्रम् ; यतोऽत्रैकज्ञानप्रत्यक्षत्वं सूक्ष्माद्यर्थानां साध्यत्वेनाभिप्रेतम्, प्रतिनियतविषयानेकज्ञानप्रत्यक्षत्वं वा? तत्राद्यकल्पनायां विरुद्धो हेतुः, प्रतिनियतरूपादिविषयग्राहकानेकप्रत्ययप्रत्यक्षत्वेन व्याप्तस्याग्यादिदृष्टान्तधर्मिणि प्रमेय. २५ त्वस्योपलम्भात् साध्यविकलता च दृष्टान्तस्य । द्वितीयकल्पनायां सिद्धसाध्यता अनेकप्रत्यक्षैरनुमानादिभिश्च तत्परिज्ञानाभ्युपग मात्। १ निश्चिताविनाभावपूर्वकत्वादनुमानस्य । २ साध्यसाधकानुमाने। ३ परोक्षे । ४ धी प्रतिपन्नः। ५ सर्वशलक्षणे। ६ सर्वशस्य । ७ त्रयोऽवयवा यस्याः । ८ भाषस्वरूपः। ९ सर्वशसत्त्वे । १० सर्वशस्य । ११ भावाभावोमय। १२ जैनः । १३ दृष्टान्तप्रवर्तनाभावात् । १४ विपक्षसपक्षाभ्यां व्यावतमानो हेतुरसाधारणानेका• न्तिकः । भस्सोदाहरणंमनित्यः शब्दः श्रावणस्वादिति । १५ हेतोः । १६ जगति । १७ भनुमाने। १८ सूक्ष्मान्तरितदूरार्थ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy