SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सू० २।१२] - सर्वज्ञत्ववादः २९.७ यतीति तत्कथमस्यावरणापायप्रभवत्वम् ? इत्यप्यसारम् क्षणि कनैरात्म्यादिभावनायाश्चिन्तामय्याः श्रतमय्याश्च मिथ्यारूपत्वात् । नच मिथ्याज्ञानस्य परमार्थविषययोगिज्ञानजनकत्वमतिर्प्रसङ्गात् । यथा च न क्षणिकत्वं नैरात्म्यं शून्यत्वं वा वस्तुनस्तथा वक्ष्यते । किन, अखिलप्राणिनां भावनावतां तथाविधज्ञानोत्पत्तिः किन स्यात् सुगतवत् । तेषां तथाभूतभावनाऽभावाचेत् नः प्रतिपन्नतत्त्वानां भावनाप्रवृत्तमनसां सर्वेषां समाना भावनैव कुतो व स्यात् ? प्रतिबन्धककर्म सद्भावाश्चेत् तर्हि भावनाप्रतिबन्धककर्मापाये भावनावत् योगज्ञानप्रतिबन्धककर्मापाये तज्ज्ञानोत्पत्तिर- १० भ्युपगन्तव्या । इति सिद्धं साकल्येनावरणापाये एवातीन्द्रियमशेषार्थविषयं विशदं प्रत्यक्षम् । " ननु चाशेषार्थज्ञातुस्त (ज्ञानस्यत ) ज्ज्ञानवतः कस्यचित्पुरुषविशेपस्यैवासम्भवात्कथं तज्ज्ञानसम्भवः ? तथाहि न कश्चित्पुरुषविशेषः सर्वशोस्ति सदुपलम्भकप्रमाणपञ्चकागोचरचारित्वा- १५ द्वन्ध्यास्तनन्धयवत् । न चायमसिद्धो हेतुः तथाहि सकलपदार्थवेदी पुरुषविशेषः प्रत्यक्षेण प्रतीयते, अनुमानादिप्रमाणेन वा ? न तावत्प्रत्यक्षेण; प्रतिनियतासन्नरूपादिविषयत्वेन अन्यंसनसानस्थ संवेदनमात्रेण्यस्य सामर्थ्य नास्ति, किमंत पुनरनाद्यनन्तातीतानागतवर्त्तमानसूक्ष्मादिस्वभावस कलपदार्थ साक्षात्कारि- २० संवेदनविशेषे तदध्यासिते पुरुषविशेषे वा तत्स्यात् ? न चातीवादिखभावनिखिल पदार्थ ग्रहणमन्तरेण प्रत्यक्षेण तत्साक्षात्करणप्रवृत्तज्ञानग्रहणम्, त्राह्माग्रहणे तन्निष्टग्राहकत्वस्याप्यग्रहणात् । नाप्यनुमानेन सौ प्रतीयते; तद्धि निश्चितस्वसाध्यप्रतिबन्धाद्धेतोरुदयमासादयत्प्रमाणतां प्रतिपद्यते । प्रतिबन्धश्चाखिलपदार्थ- २५ नसत्त्वेन स्वसाध्येन हेतोः किं प्रत्यक्षेण गृह्येत, अनुमानेन वा ? न. तावत्प्रत्यक्षेणः अस्याऽत्यक्षज्ञानवत्सत्त्वसाक्षात्करणाक्षमत्वेन तत्प्रतिपत्तिनिमित्तहेतुप्रतिवन्धग्रहणेप्यक्षमत्वात् । न ह्यप्रतिपन्नसम्बन्धिनस्तद्गतसम्बन्धावगमो युक्तोऽतिप्रसङ्गात् । नाप्य क् १ मुख्यप्रत्यक्षस्य । २ द्विचन्द्रादिशानस्यापि योगिज्ञानजनकत्वप्रसङ्गात् । ३ अशेघविषय । २४ सर्वश । ५ परेण त्वया । ६ मुख्यम् । ७ मीमांसकः । ८ अन्यस्य, पुरुषान्तरस्यः । ९ अंहो । १० तत्सहिते । १.१ कश्चित्पुरुषः सकलपदार्थं साक्षात्कारी राहेण स्वभावत्वे सति प्रक्षीण प्रतिबन्ध प्रत्ययत्वादित्यनेन । : १२ परमाणोर प्रतिपत्तावपि घटस्य परमाणुना सम्बन्ध प्रतिपत्तिप्रसङ्गात् ।। 09 1994
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy