SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ २४६ प्रमेयकमलमार्तण्डे [२, प्रत्यक्षपरि० यद्धान्यतिशयस्तस्यात्यतातिशयेऽन्यख्यात्यन्तहानिः यथालेरत्यन्तातिशये शीतल्या, अस्ति च सम्यग्दर्शनादेरत्यन्तातिशयः क्वचि. दात्मनि' इति । यद्वा, आवरणहानिः क्वचित्पुरुषविशेष परमप्रक प्राप्ता प्रकृप्यमाणत्वात् परिमाणवत् । न चात्रासिद्धं साधनमः ५तथाहि-प्रकृष्यमाणावरणहानिः आवरणहानित्वात् माणिक्याद्या. वरगहानिवत्। तद्धानिपरमप्रकर्षे च ज्ञानस्य परमः प्रकर्षः सिद्धः। यद्धि प्रकाशात्मकं तत्वावरणहानिप्रकर्षे प्रकृष्यमाणं दृष्टम यथा नयनप्रदीपादि, प्रकाशात्मकं च ज्ञानमिति । तदेवमावरण प्रसिद्धिवत्तदभावोप्यनवयवेन प्रमाणतः प्रसिद्धः । तत्प्रभवमेव १० चाशेषार्थगोचरं ज्ञानमभ्युपगन्तव्यम् , लेशतोप्यावरणसद्भावे तस्याशेपार्थगोचरत्वासम्भवात्, यत्रैवावरणसद्भावस्तत्रैवास्य प्रतिवन्धसम्भवात् । आगमद्वारेणाशेषार्थगोचरं ज्ञानम् ; इत्यप्यसुन्दरम् ; विशदज्ञानस्य प्रस्तुतत्वात् । न चागमज्ञानं विशम् । न चागमोप्यशेषार्थ१५ गोचरः; अर्थपर्यायेषु तस्याप्रवृत्तेः । ते चार्थस्य प्रतिक्षणम् ‘अर्थक्रियाकारित्वात्सत्वाद्वा सन्ति' इत्यवसीयन्ते । अन्यथास्याऽवस्तुत्वप्रसङ्गः। करणजन्यत्वे चाशेषज्ञानस्यातीन्द्रियार्थेषु प्रति बन्धः प्रसिद्ध एव, इन्द्रियाणां रूपादिमत्यव्यवहितेऽनेकावयव प्रचयात्मकेऽर्थे प्रवृत्तिप्रतीतेः। २० ननु योगजधर्मानुगृहीतानामिन्द्रियाणां गगनावशेषातीन्द्रिया र्थसाक्षात्कारिज्ञानजनकत्वसम्भवात् कथं तत्राशेषज्ञानस्येन्द्रियजत्वेपि प्रतिवन्धसम्भवः, इत्यप्यसमीक्षिताभिधानम्; योगजधर्मानुग्रहस्पेन्द्रियाणां प्रथमपरिच्छेदे प्रतिविहितत्वात् । .. .. भावनाप्रकर्षपर्यन्तजत्वाद्योगिविज्ञानस्य नोक्तदोषानुषङ्गः । २५ भावना हि द्विविधा-श्रुतमयी, चिन्तामयी च । तत्र श्रुतमयी श्रृंयमाणेभ्यः परार्थानुमानवाक्येभ्यः समुत्पद्यमानज्ञानेन श्रुतश:: ब्दवाच्यतामास्कन्दता निवृत्ता परमप्रकर्ष प्रतिपद्यमाना स्वार्थाः नुमानज्ञानलक्षणया चिन्तया निर्वृत्तां चिन्तामयीं भावनामारभते। सा च प्रकृप्यमाणा परं प्रकर्षपर्यन्तं सम्प्राप्ता योगिप्रत्यक्षं जन११ कर्मण ! २ साकल्येन । .. ३ आवरणाभावप्रभवम् । ४ परेण । ५ अर्थे । ६प्रकृतत्वात् । ७ अर्थपर्यायाः। .. ८ अर्थोऽवस्तु, असत्त्वात् । असन्नर्थोऽर्थक्रियासूत्यत्वात् । अर्थक्रियाशून्योर्थः-अर्धपर्यायरहितत्वात्, खपुष्पवत । सौगतो,वक्ति । १. आचार्यात् । १५. सर्व क्षणिक सत्त्वादिति । १२. प्रामुवता ३श्रुतमयी भावना की। .............. .. tri
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy