SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ २.४२ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० द्धमावरणम् । ननु. मेवा देदूरदेशता रावणादेस्तत्कालता परमा. ण्वादेः सूक्ष्म स्वभावता मूलकीलोदकादेश्च सूस्यादिः आवरणं. प्रसिद्धमेवेति चेत्तदसारम् । तद्भावस्य कर्तुमशक्यत्वात् ।। खलु सातिशयर्द्धिमतापि योगिना देशाधभावो विधातुं शक्यः। ५ न चान्यत् किञ्चिदावरणं प्रतीयते । ततः सामग्रीविशेष विश्लेषिताखिलावरणमित्ययुक्तम् . अत्रोच्यते-न शरीराद्यावरणम् । किं तर्हि ? तयतिरिक्तं कर्म। तच्चानुमानतः प्रसिद्धम् ; तथाहि-स्वपरप्रमेयबोधैकस्वभावस्यात्मनो हीनगर्भस्थानशरीरविषयेषु विशिष्टाऽभिरतिः आत्मता१० तिरिक्तकारणपूर्विका तत्त्वात् कुत्सितपरपुरुषे कमनीयकुलका. मिन्यास्तत्राद्युपयोगजनितविशिष्टाभिरतिवत् । तथा, भवभृतां मोहोदयः शरीरादिव्यतिरिक्तसम्वन्ध्यन्तरपूर्वको मोहोदयत्वात मंदिराघुपयोगमत्तस्यात्मगृहादौ मोहोदयवत्। ननु चातः कर्ममात्रमेव प्रसिद्धं नावरणम्। ततस्तत्सिद्धावेव १५प्रमाणमुच्यतां तत्रैव विवादादिति चेदुच्यते येज्ज्ञानं स्वविषयेऽ. प्रवृत्तिमत् तत्सावरणम् यथा कामलिनो लोचनविज्ञानमेकचन्द्रमसि, स्वविषये अशेषार्थलक्षणेऽप्रवृत्तिमञ्च ज्ञानमिति। . ... ननु विज्ञानस्याशेषविषयत्वं कुतः सिद्धम् ? आवरणापाये तत्प्र काशकत्वाञ्चेदन्योन्याश्रयः-सिद्धे हि सकलविषयत्वे तस्य आव२० रणापाये तत्प्रकाशनं सिध्यति, अतश्च सकलविषयत्वमिति तदप्यसमीक्षिताभिधानम् ; यतोनुमानमिच्छता भवताप्यवश्यं सकलावरणवैकल्यात्प्रागेव सकलस्य प्राणिमात्रस्याशेषविषयं व्याप्त्या. दिज्ञानमभ्युपगतमेव । तथा, यत्स्वविषयेऽस्पष्टं ज्ञानं तत्सावर णम् यथा रजोनीहाराद्यन्तरिततरुनिकरादिज्ञानम्, अस्पष्टं च २५ 'सर्व सदनेकान्तात्मकम्' इत्यादि व्याप्तिज्ञानम् । मिथ्यादृशां सर्वत्रानेकान्तात्मके भावे विपरीतज्ञानं सावरणं मिथ्याज्ञानत्वात् धत्तूरकाद्युपयोगिनो मृच्छकले काञ्चनज्ञानवदिति । अतः सिद्धमांवरणं पौद्गलिकं कर्मेति । . }:१ ज्ञानस्य । २ मीमांसकीयपूर्वपक्षे सति जैनैः। ३ हीनशब्दो गर्भादिशब्दैः प्रत्येकमभिसम्बन्धनीयः। ४ विषयसम्वनिताचन्दनादिषु । .५. विशिष्टाभिरतित्वात् । ६आदिपदेनौषधमत्रादि । ७ अनुभव । ८. उत्तानुमानद्वयात् । . .९. संसारिज्ञानमशेषार्थलक्षणे स्वविषये सावरणं भवति तत्राप्रवृत्तिमत्त्वादिति प्रतिज्ञाहेतू उपरिष्टान्नेयौ । १० सावरणम् । ११. अभावात् ।। १२ आदिपदेनागमजम् । १३ अस्पष्टशानत्वा दित्युच्यमाने स्वसिन्नस्पष्टत्वं स्यात्चद्यवच्छेदार्थ स्वविषये इत्युक्तम् । १४ एकान्तरूपं विपरीतम् । १५ अनुमानत्रयात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy