________________
२४१
सू० २।१२] आवरणविचारः
अथेदानीं मुख्यप्रत्यक्षप्ररूपणस्यावसरप्राप्तत्वात् तदुत्पत्तिका. रणखरूपप्ररूपणायाह
सामग्रीविशेषविश्लेषिताखिलावरणमातीन्द्रि• यमशेषतो मुख्यम् ।। १२ ।
विशदं प्रत्यक्षम्' इत्यनुवर्तते । तत्राशेषतो विशदमतीन्द्रियं५ यद्विज्ञानं तन्मुख्य प्रत्यक्षम् । किंविशिष्टं तत् ? सामग्रीविशेषदिश्लेषिताखिलावरणम् । ज्ञानावरणादिप्रतिपक्षभूता हीह सम्यन्द र्शनादिलक्षणान्तरङ्गा बहिरङ्गानुभवादिलक्षणा सामग्री गृह्यते, तस्या विशेषोऽविकलत्वम् , तेन विश्लेषितं क्षयोपशमक्षयरूपतया विघटितमखिलमवधिमनःपर्ययकेवलज्ञानसम्बन्ध्यावरणम् १० अखिलं निश्शेष वाऽऽवरणं यस्यावधिमनःपर्ययकेवलज्ञानत्रयस्य तत्तथोक्तम् ! ___ अत्र च प्रयोगः-यद्यत्र स्पष्टत्वे सत्यवितर्थ ज्ञानं तत्तत्रापगताखिलावरणम् यथा रजोनीहाराद्यन्तरितवृक्षादौ तदपगमप्रभवं ज्ञानम्, स्पष्टत्वे सत्यवितथं च कचिदुक्त प्रेकारं ज्ञानमिति । तथा-१५ ऽतीन्द्रियं तत् मनोऽक्षानपेक्षत्वात् । तदन पेक्षं तत् सकलकलऋविकलत्वात् । तद्विकलत्वं चास्यात्रैव प्रसाधयिष्यते । अत एव चाशेषतो विशदं तत् । यत्तु नातीन्द्रियादिस्वभावं न तत्तदनपेक्षत्वादिविशेषणविशिष्टम् यथास्मदादिप्रत्यक्षम् , तद्विशेषणविशिष्टश्चेदम् , तस्मात्तथेति । तथा मुख्यं तत्प्रत्यक्षम् अतीन्द्रिय-२० त्वात् स्वविषयेऽशेषतो विशदत्वाद्वा, यत्तु नेत्थं तन्नैवम् , यथासदादिप्रत्यक्षम् , तथा चेदम् , तस्मान्मुख्यमिति ।
ननु चावरणप्रसिद्धौ तद्पगमाज्ज्ञानस्योत्पत्तियुक्ता, न च तत्प्रसिद्धम् । तद्धि शरीरम् , रागादयः, देशकालादिकं वा भवेत् ? न तावच्छरीरं रागादयो वा; तद्भावेप्यर्थोपलम्भसम्भ-२५ वात् । तदुपलम्भप्रतिवन्धकमेव हि काण्डपटादिकं लोके प्रसि
१ सूत्रे । २ आदिपदेन देशकालादिग्रहणम् । ३ समग्रत्वम् । ४ आवरणापाये । ५ अवधिमनःपर्ययकेवलज्ञानं स्वविषयेऽपगताखिलावरणं तत्र स्पष्टत्वे सत्यवितथज्ञानस्वात् । ६ ज्ञानम् । ७ अर्थे। ८ अनुमानादिना व्यभिचारपरिहारार्धम् । ९ संशयादिना व्यभिचारपरिहारार्धम् । १० रूपिषु, परमनोगतार्थेषु, मूर्तामूर्तसकलवस्तु च। ११ क्रमेणावधिमनःपर्ययकेवलाख्यम् । १२ अस्मिन्परिच्छेदे । १३ सकल. कलङ्कविकलत्वादेव। १४ अवध्यादित्रयम् । १५ मुख्यम्। १६ बौद्धः प्राह । २७ आदिपदेन स्वभावो वा।
प्र. क. मा० २१