SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ २४३ सू० २११२] कर्मणां पौगलिकत्वम् .. ननु चाविद्यैवावरणं न पौगलिकं कर्म, मूर्त्तनानेनामूर्तस्य ज्ञानादेरावरणायोगात्, अन्यथा शरीरादेरप्याव(वा)रकत्वानुयङ्गात् ; इत्यप्यसमीचीनम् : मदिरादिना मूर्तेनाप्यमूर्तस्य ज्ञानादेरावरणदर्शनात् । अमूर्तय बाब(बा)रकत्वे गगनादेर्शानान्तरस्य च तत्प्रसङ्गः । तदविरुद्धत्वात्तस्य तन्नति चेन् : तर्हि शरी-५ रादेरयत एव तन्मा भूत्तद्विरुद्धस्यैवावरकत्वप्रसिद्धेः । प्रवाहेण प्रवर्तमानस्य ज्ञानादेरविद्योदये निरोधात्तस्वास्ता रोधगतौ नदिरादिवत्पौद्गलिककर्मणोपि सास्तु विशेपाभावात् । दाहि-भालनो मिथ्याज्ञानादिः पुगलविशेसम्बन्धनिवन्धनः तत्स्वरूपीन्यथामावस्वभावत्वात् उन्मत्तकादिजनितोन्मादादिवत् । न च मिथ्या-१० ज्ञानजनितापरमिथ्याज्ञानेनानेकान्तः; तस्यापरापरपौगलिककर्मादये सत्येव भावात् अपरापरोन्मत्तकादिरससद्भावे तत्कृतोन्मादादिसन्तानवत् । ननु चात्मगुणत्वात्कर्मणां कथं पौद्गलिकत्वमित्यन्ये; तेप्यपरीक्षकाः; तेषामात्मगुणत्वे तत्पारतन्यानिमित्तत्वविरोधात् सर्व-१५ दात्मनो वन्धानुपपत्तेः सदैव मुक्तिप्रसङ्गात् । न खलु यो यस्य गुणः स तस्य पारतव्यानिमित्तम् यथा पृथिव्यादे रूपादिः, आत्मगुणश्च धर्माधर्मसंज्ञकं कर्म परैरभ्युपगम्यते इति न तदा त्मनः पारतन्यनिमित्तं स्यात् । न चैवम् , आत्मनः परतन्त्रतया प्रमाणतः प्रतीतेः। तथाहि-परतोऽसौ हीनस्थानपरिग्रहवत्त्वात् २० मद्योद्रेकपरतन्त्राशुचिस्थानपरिग्रहवद्विशिष्टपुरुषवत् । हीनस्थानं हि शरीरम् , आत्मनो दुःखहेतुत्वात्कारागारवत् । तत्परिग्रहवाँश्च संसारी प्रसिद्ध एव ! न च देवशरीरे तदभावात्पक्षाव्याप्तिः; तस्यापि मरणे दुःखहेतुत्वप्रसिद्धः । यत्परतन्त्रश्चासौ तत्कर्म इति सिद्धं तस्य पौद्गलिकत्वम् । तथा हि-पौगलिकं कर्म आत्मनः पार-२० तन्य निमित्तत्वान्निगलादिवत् । न च क्रोधादिभिर्व्यभिचारः, . . १ पुरुषशानाद्वैतवादिनौ वदतः । २ आत्मनः । ३.आदिपदेनात्मनः। ४ अविद्यास्वरूपस्य । ५ गगनादिकं शानान्तरं च ज्ञानादेरावरकं भवति अमूर्त्तत्वादविद्यावत् । ६ तेन ज्ञानेन। ७ मिथ्याज्ञानमविद्या। ८ प्रवाहेण प्रवर्तमानस्य शानादेः पौद्गलिककोदये निरोधस्याविशेषात् । ९ कर्मतापन्न । १० सम्यग्ज्ञानादि । ११ मिथ्याशानादि । १२ यौगाः । १३ धर्माधर्मसंचक फर्म आत्मनः पारतब्यनिमित्तं न भवति आत्मगुणत्वादित्यध्याहारः। १४ कर्मणा । १५ शरीरादिलक्षण । १६ भागासिद्धत्वं दुःखहेतुत्वलक्षणस्य हेतोः। १७ सुखदुःखरागद्वेषादिकृतं पारतत्रयम् । १८ निपलं गलबन्धनम् ( शृङ्खलादि ) . . . . . . . .. ..
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy