________________
सू० २।७] अर्थकारणतावादः
२३५ ननु भ्रान्तं तत्तेनापलभ्यते, न चान्यस्य व्यभिचारेन्यस्य व्यमिचारोऽतिप्रसङ्गात्; इत्यप्यसमीक्षिताभिधानम्, खपरग्रहणलक्षणं हि ज्ञानम्, तत्र व यथा सत्याभिमतज्ञानं स्वपरग्राहकं तथा केशोण्डुकादिज्ञानमपि । एतावास्तु विशेषः-किञ्चित्सत्परं गृहाति संवादसद्भावात्किञ्चिदसद्विसंवादात्, न चैदावता जात्यन्तर-५ त्वेनानयोरन्यत्वं ताभ्यां व्यभिचाराभावो वा! अन्यथा 'प्रयत्नानन्तरीयकः शब्दः कृतकत्वाद् घटादिवत्' इत्यादेप्यप्रयत्नानन्तरीयकैर्वियुद्धनकुसुमादिभिर्न व्यभिचारः, ताल्वादिदण्डादिजनिताच्छब्दघटादेस्तद्विपरीतस्य विद्युदारेन्यत्वात् । न चान्यस्य व्यभिचारेऽन्यस्यापि व्यभिचारोऽतिप्रसङ्गात् । तथाप्यत्र व्यभि-१० चारे प्रकृतेपि सोऽस्तु विशेषभावात् ।
किञ्च, 'कारणमेव परिच्छेद्यम्' इत्यभ्युपगमे योगिज्ञानात्प्रा. कालभाविन एवार्थस्यानेन परिच्छित्तिः स्यात् तस्यैव तत्कारणत्वात्। न पुनस्तत्कालभाविनोऽभौविनो वा, तस्यातत्कारणत्वात् । लब्धात्मलाभ हि किंचित्कस्यचित्कारणं नान्यथातिप्रंस-१५ ङ्गात् । तथाप्यनेन तत्परिच्छेदेऽन्यज्ञानेनाप्यतत्कारणस्याप्यर्थस्य परिच्छेदः स्यात् । तथा चेदमयुक्तम्-"अर्थसहकारितयार्थवत्प्रमाणम्"[ ] इति । तदपरिच्छेदे चास्यासर्वज्ञतानुषङ्गः । ज्ञानान्तरेण परिच्छेदे तस्यापि ज्ञानान्तरस्य समसमयभाविनोर्थस्यापरिच्छेदकत्वात्कथं सर्वज्ञतेति चिन्त्यम्।
क्षणिकत्वे चार्थस्य ज्ञानकालेऽसत्त्वात्कथं तेन ग्रहणम् ? तदाकारता चास्य प्रोक्प्रत्युक्ता । सत्यां वा तस्या एव ग्रहणात्परमार्थतोर्थस्याग्रहणात्तदेवाऽसर्वज्ञत्वम् । न खलु चैत्रसदृशे मैत्रे दृष्टे परमार्थतश्चैत्रो दृष्टो भवत्यन्यत्रोपचारात् । साध्वी चोपचारेण सर्वज्ञत्वकल्पना सुगतस्य सर्वस्य तथाप्राप्तेः,२५ एकस्य कस्यचित्सतो वेदने तत्सदृशस्य सत्त्वेन सर्वस्य वेद
१ कारणेन । २ गोपालघटिकाधूमस्य पावकव्यभिचारे भूधरादिधूमस्यापि तद्वयभिचारः स्यात् । ३ भ्रान्ताभ्रान्तशानयोः। ४ संशयविपर्ययाभ्याम् । ५ शानस्यार्थाभावे भावो व्यभिचारस्तस्याभावो न च । ६ एतावतान्यत्वं व्यभिचाराभावो वा स्यायदि तहिं । ७ अपेक्षितपरव्यापारो हि भावः कृतक उच्यते। ८ ताल्वाधजनितस्य, मेघादिकारणकस्य । ९ भिन्नजातीयत्वात् । १० प्रयत्नानन्तरीयकत्वं विना भावे । ११ अन्यत्वेपि। १२ कृतकत्वादित्यस्य हेतोः। १३ शाने । १४ अन्यत्वस्य । १५ ईश्वरशानाद्वा । १६ भविष्यतोर्धस्य । १७ खरविषाणमपि कस्यचित्कारणं स्यादिसतिप्रसङ्गः। १८ वर्तमानस्य भाविनो वार्थस्य शानाकारणत्वेपि। १९ योगिनः । २० भाविनोर्थस्य । २१ प्रथमपरिच्छेदे । २२ प्राणिमात्रस्य । २३ सन्निहितस्य ।
२०