SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ २३६ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरिक नसम्भवात् । सत्त्वेन लर्वस्य सर्वेण वेदनमैन्यैस्तु धर्मेरवेदन. मिति चेत् तर्हि [2] कस्यार्थखभावस्य" [प्रमाणवा० ११४४] इत्यादिग्रन्थविरोधः । सत्त्वेनापि तद्ग्रहणे न सादृश्यं ग्रहणकारणमिति कथं सुगतस्योपचारेणापि बहिः प्रमेयग्रहणम् ? ५ कथं चैववादिनोभावस्योत्पद्यमानता प्रतीयेत-सा ह्युत्पद्यमाना. र्थसमसमयभाविना ज्ञानेन प्रतीयते, पूर्वकालभाविना, उत्तरका लभाविना वा? न तावत्समसमयभाविना; तस्याऽतत्कार्यत्वात । नापि पूर्वकालभाविना तत्काले तस्याः सत्त्वाभावात् । न चासती प्रत्येतुं शक्या; अकारणत्वात् । तदा खलूत्पत्स्यमानतार्थस्य न १० तूत्पद्यमानता । नाप्युत्तरकालभाविना; तदा विनष्टत्वात्तस्याः । न हि तदोत्पद्यमानतार्थस्य किं तूत्पन्नता । नित्येश्वरज्ञानपक्षे सिद्धमकारणस्याप्यर्थस्यानेन परिच्छेद्यत्वम्। तद्वदन्येनापि स्यात् । अथार्थाकार्यत्वे तद्वन्नित्यत्वान्निखिलार्थ ग्राहित्वानुषङ्गः, न; चक्षुरादिकार्यत्वेनानित्यत्वात् । प्रतिनियत१५शक्तित्वाच्च प्रतिनियतार्थग्राहित्वम् । न खलु यैकंस्य शक्तिः सान्यस्यापि, अन्यथा सर्वस्य सर्वकर्तृत्वानुषङ्गो महेश्वरवत् । यथैव हीश्वरः कार्यग्रामेणानुपक्रियमाणोप्यविशेषेण तं करोति तथा कुम्भकारादिरपि कुर्यात् । न हि सोपि तेनोपक्रियते येम 'उपकारकमेव कुर्यान्नान्यम्' इति नियमः स्यात् । शक्तिप्रतिनि२० यमातंदविशेषेपि कश्चित्कस्यचित्कर्त्तत्यभ्युपगमो ग्राहकत्वपक्षेपि समानः। ननु यद्यर्थाभावेपि ज्ञानोत्पत्तिः कुतो न नीलाद्यर्थरहिते प्रदेशे तद्भवति? भवत्येव नयनमनसोःप्रणिधाने । कथं न नीलाद्यर्थनहणम् ? तत्र तद्भावात् । कथं 'तदुत्पन्नम्' इत्यवगमः ? न हि १ पुरुषेण। २ नीलपीतादिलक्षणैः। ३ नीललक्षणस्यार्थस्य प्रत्यक्षतः प्रतीतेः कोन्यो भावो यः प्रमाणान्तरैवेद्यते इति ग्रन्थस्य विरोधः । ४ प्रतिबिम्बितस्य सादृश्यस्य ग्रहणं स्यान्न त्वर्धस्य । ५ कारणमेव परिच्छेद्यमिति वादिनः। ६ असदादिशनेन । ७ असदादिशानस्य । न इति चेन्नेत्यर्थः। ८ अस्मदादिशानस्य । ९ ईश्वरशानस्य । १० असदादिज्ञानस्य । ११ एकस्य या शक्तिः सान्यस्य यदि । १२ नरस्य । १३ सर्वकार्याणाम् । १४ ग्रामः समूहः । १५ अनुपकारककार्यकारणत्वस्याविशेषेपि । १६ घटपटादिषु मध्ये। १७ अर्थकार्यताऽभावेपि शानं कस्यचियोग्यस्य ग्राहक स्यादिति समानता। १८ पुरोदेशे । 1 'एकस्यार्थ स्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न भागो दृष्टः स्याद्यः प्रमाणैः परीक्ष्यते ॥" [प्रमाणवा० २४४]
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy