SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० मानं ज्ञानं सदेव वस्तु विषयीकरोतीति किन्नेष्यते? तत्कथमर्थ. कार्यता ज्ञानस्य अनेन व्यभिचारात् संशयज्ञानेन च ? न हि तदर्थ सत्येव भवति; अभ्रान्तत्वानुषङ्गा, तद्विषयभूतस्य स्थाणुपुरुषलक्षणार्थद्वयस्यैकत्र सद्भावासम्भवाच । सद्भावे वारेको न स्यात् । अथोच्यते-"सामान्यप्रत्यक्षाद्विशेषा. प्रत्यक्षादुभयविशेषस्मृतेश्च संशयः" [वैशे० सू० २।२।१७] विपर्ययः पुनस्तद्विपरीतविशेषस्मृतेः इत्यर्थादेवानयोर्भावः; तद प्युक्तिमात्रम् । तयोः खलु सामान्यं वा हेतुः स्यात्, विशेषों वा, द्वयं वा? न तावत्सामान्यम्, तत्र संशयाधभावात् १० सामान्यप्रत्यक्षात्' इत्यभिधानात्, प्रत्यक्षे च संशयादि. विरोधात् । विशेषविषयं च संशयादिज्ञानम् । न चास्य सामान्य जनकं युज्यते । न ह्यन्यविषयं ज्ञानमन्येन जन्यते, रूपज्ञानस्य रसादुत्पत्तिप्रसङ्गात् । यथा च सामान्यादुपजायमानं तेदसतो विशेषस्य वेदकं तथेन्द्रियमनोभ्यां जायमानं सतः १५ सामान्यादेरपीति व्यर्थार्थस्य तद्धेतुत्वकल्पना । सामान्यार्थजत्वे चास्य अर्थानर्थजत्वप्रतिज्ञाविरोधः, कामलिनश्च केशोण्डुकादिज्ञानानुत्पत्तिः, न खलु तत्र केशोण्डुकादिसमानधर्मा धर्मा विद्यते यद्दर्शनात्तत्स्यात् । तन्नास्य॑ सामान्यं हेतुः । नापि विशेषस्त तदभावात् । न खलु पुरोदेशे स्थाणुपुरुष२० लक्षणो विशेषोस्ति तज्ज्ञानस्याभ्रान्तत्वप्रसङ्गात् । स्थाणुरस्तीति चेत्, कथं ततः किं पुरुषः पुरुष एवेति पुरुषांशावसायः? अन्यथान्यत्रापि ज्ञानेर्थस्य कारणत्वकल्पना व्यर्था । तन्न विशे. षोपि तद्धेतुः । नाप्युभयम्; उभयपक्षोक्तदोषानुषङ्गात् । ततः संशयादिज्ञानस्यार्थाभावेप्युपलम्भात्कथं तद्भावे ज्ञानाभावसि. २५द्धिर्यतोर्थकार्यतास्य स्यात् ? १ भवता नैयायिकेन । २ केशोण्डुकशानेन । ३ भन्यथा । ४ संशयशानस्य । ५ संशयः। ६ परेण । ७ अर्द्धतासामान्यस्य ग्राहकं प्रत्यक्षमुपलम्भस्तस्मात् । ८ स्थाणुत्वपुरुषत्वलक्षणो विशेषस्तस्याऽप्रत्यक्षमनुपलम्भस्तस्मात् । ९ विधमानविशे'धात् । १० तस्माद्विधमानविशेषात्सामान्यादिलक्षणात् । ११ शानम् । १२ सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षादिति सामग्रीतः संशयोत्पत्ती दूषणान्तरमाह । १३ संशयस्य । १४ स्थाणुपुरुषलक्षणयोरंशयोरन्यतर एकस्तु विधमानोर्थोऽपरोऽविधमानोऽनर्थः । १५ स्थाणुस्थानीयः। १६ आकाशे। १७ शुक्तिकास्थानीयः । १८ संशयादेः। १९ पुरोदेशे । २० अन्यथा । २१ स्थाणावविद्यमानस्य पुरुषांशस्य व्यवसायो यदि । २२ इन्द्रियमनोभ्यामुत्पन्ने सत्यज्ञानेपि । २३ संशयादिहेतुः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy