________________
सू० २७] अर्थकारणतावादः
२३३ तदन्वयव्यतिरेकानुविधानाभावाच्च केशोण्डुक
ज्ञानवनक्तञ्चरज्ञानवच्च ॥ ७॥ तदन्वयव्यतिरेकानुविधानाभावाञ्च, न केवलं परिच्छेद्यत्वात्तयोस्तदकारणताऽपि तु ज्ञानस्य तंदन्वयव्यतिरेकानुविधानाआवाच । नियमेन हि यद्यस्यान्वयव्यतिरेकावनुकरोति तत्तस्य ५ कार्यम् यथानेधूमः । न चानयोरन्वयव्यतिरेको ज्ञानेनानुकियेते।
अत्रोभयप्रसिद्धदृष्टान्तमाह-केशोण्डुकज्ञानवन्नक्तञ्चरज्ञानवञ्च । कामलाद्युपहतचक्षुषो हि न केशोण्डुकज्ञानेर्थः कारणत्वेन व्याप्रियते । तत्र हि केशोण्डुकस्य व्यापारः, नयनपक्ष्मादेर्वा, तत्के-१० शानां वा, कामलादेवा गत्यन्तराभावात् ? न तावदाद्यविकल्पः; न खलु तज्ज्ञानं केशोण्डुकलक्षणेर्थे सत्येव भवति भ्रमाभावप्रसङ्गात् । नयनपक्षमादेस्तत्कारणत्वे तस्यैव प्रतिभासप्रसङ्गात्, गगनतलावलम्वितया पुरःस्थतया केशोण्डुकाकारतया च प्रतिभासो न स्यात् । न ह्यन्यदन्यत्रान्यथा प्रत्येतुं शक्यम् । अथ नय-१५ नकेशा एव तत्र तथाऽसन्तोपि प्रतिभासन्ते; तर्हि तद्रहितस्य कामलिनोपि तत्प्रतिभासाभावः स्यात् ।
किञ्च, असौ तद्देशे एव प्रतिमासो भवेन्न पुनर्देशान्तरे । न खलु स्थाणुनिवन्धना पुरुषभ्रान्तिस्तद्देशादन्यत्र दृष्टा । कथं च तेदेशता तदाकारता चाऽसती तज्ज्ञानं जनयेद्यतो ग्राह्या स्यात् । २० अथ भ्रान्तिवशातत्केशाएव तत्र तथा तज्ज्ञानं जनयन्ति; अस्मा. कमपि तर्हि 'चक्षुर्मनसी रूपज्ञानमुत्पादयेते' इति समानम् । यथैव यैन्यविषयजनितं ज्ञानमन्यविषयस्य ग्राहक तथान्यकारणजनितमपि स्यात्। * अथ कामलादय एव तज्ज्ञानस्य हेतवः, तेभ्यश्चोत्पन्नं तदसदेव २५ केशादिकं प्रतिपद्यते; तर्हि निर्मललोचनमनोमात्रकारणादुत्पद्य
१ अर्थालोक । २ अर्थालोकयोनिं प्रत्यकारणत्वे साध्ये। ३ अर्थाभावे ( कोषेषूडुकशब्द एव श्रूयते )। ४ आलोकाभावे । ५ भवति चेत्तहिं । ६ केशोण्डुकशानस्य । ७ नरस्य । ८ केशोण्डुक । ९ नयनदेशे। १० नयनकेशानाम् । ११ गगनतले । १२ गगनतल । १३ नयनकेशेषु। १४ केशोण्डुक । १५ केशोण्डुक। १६ नयन । १७ गगनतले । १८ केशोण्डुकतया । १९ केशोण्डुक। २० नयनकेशेभ्यस्सकाशादन्यस्केशोण्डुकस्य ग्राहकं चेत् । २१ केशोण्डुकादन्ये नयनकेशाः । २२ नयनकेशेभ्यस्सकाशादन्यत्केशोण्डुकं तस्य । २३ अर्थादन्ये इन्द्रियमनसी । २४ केशोण्डुक ।