________________
२३०
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० स्याप्रकाशनात्, अन्यथातिप्रसङ्गः । उपयोगस्तु रूपादिविषय. ग्रहणव्यापारः, विषयान्तरासक्ते चेतसि सन्निहितस्यापि विषय स्याग्रहणात्तत्सिद्धिः । एवं मनोपि द्वेधा द्रष्टव्यम् ।
ततः पृथिव्यप्तेजोवायुभ्यो ब्राणरसनचक्षुःस्पर्शनेन्द्रिय ५भावः" [ ] ईति प्रत्याख्यातम् । पृथिव्यादीनामन्योन्यमेका. न्तेन द्रव्यान्तरत्वासिद्धेः, अन्यथा जलादेमुक्ताफलादिपरिणामा. भावप्रसक्तिरात्मादिवत् । न चैवम् , प्रत्यक्षादिविरोधात् ।
अथ मतम्-पार्थिवं घ्राणं रूपादिषु सन्निहितेषु गन्धस्यैवाभिव्यअकत्वान्नागकर्णिकाविमर्दककरतलवत् । तदप्यसङ्गतम्; हेतोः १० सूर्यरश्मिभिरुदकसेकेन चानेकान्तात् । दृश्यते हि तैलाभ्यक्तस्या.
दित्यमरीचिकाभिर्गन्धाभिव्यक्ति मेस्तूदकसेकेनेति । आप्यं रसने रूपादिषु सन्निहितेषु रसस्यैवाभिव्यञ्जकत्वाल्लालावत्' इत्यत्रापि हेतोलवणेन व्यभिचारः, तस्यानाप्यत्वेपि रसाभिव्यञ्जकत्वप्र. सिद्धेः । 'चक्षुस्तैजसं रूपादिषु सन्निहितेषु रूपस्यैवाभिव्यञ्जक१५त्वात्प्रदीपवत्' इत्यत्रापि हेतोर्माणिक्याधुयोतितेनानेकान्तः। 'वायव्यं स्पर्शनं रूपादिषु सन्निहितेषु स्पर्शस्यैवाभिव्यञ्जकत्वात्तो. यशीतस्पर्शव्यजकवावयविवत्' इत्यत्रापि कर्पूरादिनी सलिल. शीतस्पर्शव्यञ्जकेनानेकान्तः।
पृथिव्यप्तेजःस्पर्शाभिव्यञ्जकत्वाचास्य पृथिव्यादिकार्यत्वानु२० पङ्गो वायुस्पर्शाभिव्यञ्जकत्वाद्वायुकार्यत्ववत् । चक्षुषश्च तेजोलपाभिव्यञ्जकत्वात्तेजःकार्यत्ववत् पृथिव्यप्समवायिरूपव्यञ्जकत्वात्पृथिव्यप्कार्यत्वप्रसङ्गः । रसनस्य चाप्यरसाभिव्यञ्जकत्वाद. कार्यत्ववत् पृथिवीरसाभिव्यञ्जकत्वात्पृथिवीकार्यत्वप्रसङ्गः।
'नामसं श्रोत्रं रूपादिषु सन्निहितेषु शब्दस्यैवाभिव्यञ्जकत्वात्' २५ इति चाऽसाम्प्रतम् ; शब्दे नभोगुणत्वस्याग्रे प्रतिषेधात् । तत. श्वेदमप्ययुक्तम्-"शब्दः स्वसमानजातीयविशेषगुणवतेन्द्रियेण
१ तदभावेप्यर्थप्रकाशनं चेत्। २ पिशाचपरमाण्वादेरपि ग्रहणप्रसङ्गः । ३ विषय प्रत्यभिमुखता। ४ नैयायिकमतम् । ५ सर्वथा। ६ आदिपदेन चन्द्रकान्तादेश्च । ७ पार्थिवत्वाभावात् । ८ नुः । ९ तेजसत्वाभावात् । १० तोयगत । ११ यसः । १२ पार्थिवेन । १३ सलिलगत। १४ वायव्याभावात् । १५ स्पर्शनेन्द्रियस्य । १६ शब्दो विशेषगुणवतेन्द्रियेण गृह्यते इत्युच्यमाने सिद्धसाध्यता भविष्यति । न हि जैनेनापि रूपलक्षणगुणवता श्रोत्रेण शब्दो न गृह्यते इत्यभ्युपगम्यते । तद्वयवच्छेदार्थ समानजातीयविशेषगुणवतेन्द्रियेण गृह्यते इत्युक्तम् । तथापि स्तम्भगतरूपेण समानजातीयरूपलक्षणविशेषगुणवतेन्द्रियेण शब्दो गृह्यत इत्यभ्युपगमात्सिद्धसाध्यता ।