SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ सू० २१६] . अर्थकारणतावादः २३१ गृह्यते सामान्यविशेषवत्त्वे सति वा केन्द्रियप्रत्यक्षत्वात्, वाह्येकेन्द्रियप्रत्यक्षत्वे सत्यनात्मविशेपगुणत्वाद्वा रूपादिवत्" [ ] इति । ततो नेन्द्रियाणां प्रतिनियतभूतकार्यत्वं व्यवतिष्ठते प्रमाणाभावात् । प्रेति नियतेन्द्रिययोग्यपुद्गलारब्धत्वं तु द्रव्येन्द्रियाणां प्रतिनियतभावेन्द्रियोपैकरणभूतत्वान्यथानुपपत्तेर्घटते इति ५. प्रेक्षादक्षैः प्रतिपत्तव्यम् । ननु चेन्द्रियानिन्द्रियनिमित्तं तदित्यसाम्प्रतम् , आत्मार्थालोकादेरपि तत्कारणतयात्राभिधानाहत्वात् तन्न; आत्मनः समनन्तरप्रत्ययस्य वा प्रत्ययान्तरेप्यविशेषात् अत्रानभिधानम् असाधारणकारणस्यैव निरूपयितुमभिप्रेतत्वात् । सन्निकर्पस्य चाऽ-१० व्यापकत्वादसाधकतमत्वाच्चानभिधानम्।अर्थालोकयोस्तदसाधारणकारणत्वादत्राभिधानं तर्हि कर्त्तव्यम् । इत्यप्यसत्। तयोर्ज्ञानकारणत्वस्यैवासिद्धेः। तदाहनार्थाऽऽलोको कारणं परिच्छेद्यत्वात्तमोवत् ॥६॥ प्रसिद्धं हि तमसो विज्ञानप्रतिबन्धकत्वेनातत्कारणस्यापि परि-१५ च्छेद्यत्वम् । ननु ज्ञानानुत्पत्तिव्यतिरेकेणान्यस्य तमसोऽभावा तदयुदासार्थ स्वेन शम्दलक्षणेन समानजातीयविशेषगुणवतेन्द्रियेण गृह्यत इत्युक्तन् । साध्यविशेषणसाफल्यानन्तरं हेतुविशेषणसाफल्यमुच्यते । इन्द्रियग्राह्यत्वादित्युच्यमाने घटेनानेकान्तः । घटो हि इन्द्रियग्रामो भवति न च स्वसमानजातीय विशेषगुणवते. न्द्रियेण गृह्यते-घटस्य द्रन्यत्वेन तत्समानजातीयस्य गुणस्याभावात् । तेनाने कान्तव्युदासार्थ मेकेन्द्रियग्राह्यत्वादित्युक्तम् । न हि घटस्यैकेन्द्रियग्रामत्वं स्पर्शनादीन्द्रियेणापि ग्रहणात् । एकेन्द्रियग्राह्यत्वादित्युच्यमाने आत्मनानेकान्तः । आत्मा हि मनोलक्षणकेन्द्रियग्राह्यो भवति, न च समानजातीयविशेषगुणवतेन्द्रियेण गृह्यते-आत्मनो द्रव्यत्वेन तत्समानजातीयस्य गुणस्य मनस्यभावात् । तत्परिहारार्थ बाह्मैकेन्द्रियग्राह्यत्वादियुक्तम् । तथा च रूपत्वादिनानेकान्तः। रूपत्वादिकं बाझेकेन्द्रियग्राह्यं भवति, न च स्वसमानजातीय विशेषगुणवतेन्द्रियेण गृह्यते-रूपत्वस्य सामान्यभावेन तत्सजातीयगुणस्यैवासम्भवात् । तत्परिहारार्थ सामान्यविशेषवत्वे सति बाबैकेन्द्रियग्राह्यत्वादित्युक्तम् । न च रूपत्वसामान्यं सामान्यवद्भवति-निस्सामान्यानि सामान्यानीति वचनात् । १ न चैकपुद्गलजन्यत्वेनैकादृशत्वं योग्य पुद्गलारब्धत्वात् । २ सहाय । ३ सांव्यवहारिकम् । ४ आदिपदेन सन्निकर्षादेः। ५ प्रत्यक्ष । ६ सूत्र । ७ कारणरूपस्य । ८ पूर्वम् । ९ उपादानत्वेनात्मनासदृश । १० परोक्षशाने। ११ सूत्रे। १२ विशेष । १३ चक्षुषः प्राप्यकारित्वनिराकरणात् । १४ सांव्यवहारिकस्य । १५ सूत्रे । १६ जैनैः। १७ शानस्य । १८ ज्ञेयत्वम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy