________________
सू० २।५] चक्षुःसन्निकर्पवादः विषयः, तत्रैवाभिमुख्यसम्भवेनामीषां प्रकाशनयोग्यतोपपत्तेः । कथमन्यथैकशरीरप्रदेशान्तरगतस्पर्शनेन तत्पदेशान्तरगतः स्पर्शःप्रकाश्येत? न च कामलादयोऽञ्जनायो वा चक्षुपः कारणं येन तेषामप्यनेन न्यायेन प्रकाशनं न स्यात् , स्वसामग्रीतस्तत्सन्निधानात्प्रागेवास्योत्पन्नत्वात् । नापि कालात्ययापदिष्टोयम् ; प्रत्य-५ क्षस्य पक्षावाधकत्वेन प्रागेव समर्थनात् , आगमस्य च तद्वाधकस्यासम्भवात् । नापि सत्प्रतिपक्षः, विपरीतार्थोपस्थापकानुमानानां प्रागेव प्रतिध्वस्तत्वादिति । तथा, 'चक्षुर्गन्वा नाऽर्थेनाभिसम्वद्यते इन्द्रियत्वात्स्पर्शनादीन्द्रियवत्' इत्यनुमानाचास्याप्राप्यकारित्वसिद्धिः । अर्थस्य च तद्देशागमने प्रत्यक्षविरोध इति। १०
तञ्चोक्तप्रकारं प्रत्यक्षं मुख्यसांव्यवहारिकप्रत्यक्षप्रकारेण द्विप्रकारम् । तत्र सांव्यवहारिकप्रत्यक्षप्रकारस्योत्पत्तिकारणखरूपे प्रकाशयति
इन्द्रियानिन्द्रियनिमित्तं देशतः
सांव्यवहारिकम् ॥ ५॥ १५ 'विशदं प्रत्यक्षमित्यनुवर्तते । तत्र समीचीनोऽवाधितः प्रवृत्तिनिवृत्तिलक्षणो व्यवहारः संव्यवहारः, स प्रयोजनमस्येति सांव्यवहारिकं प्रत्यक्षम् । नन्वेवंभूतमनुमानमप्यत्र सम्भवतीति तदपि सांव्यवहारिकं प्रत्यक्षं प्राप्नोतीत्याशङ्कापनोदार्थम्-'इन्द्रियानिन्द्रियनिमित्तं देशतः' इत्याह । देशतो विशदं यत्तत्प्रयोजनं ज्ञानं २० तत्सांव्यवहारिकं प्रत्यक्षमित्युच्यते नान्यदित्यनेन तत्स्वरूपम् , इन्द्रियानिन्द्रियनि सित्तमित्यनेन पुनस्तदुत्पत्तिकारणं प्रकाशयति। '. तंत्रेन्द्रियं द्रव्यभावेन्द्रियभेदाढ़ेधा । तत्र द्रव्येन्द्रियं गोलकादिपरिणामविशेषपरिणतरूपरसगन्धस्पर्शवत्पुद्गलात्मकम् , पृथि.२५ व्यादीनामत्यन्तभिन्नजातीयत्वेन द्रव्यान्तरत्वासिद्धितस्तस्य प्रत्येकं तदारब्धत्वासिद्धः। द्रव्यान्तरत्वासिद्धिश्च तेषां विषयपरिच्छेदे प्रसाधयिष्यते । भावेन्द्रियं तु लब्ध्युपयोगात्मकम् । तत्राऽऽवरणक्षयोपशमप्राप्तिरूपार्थग्रहणशक्तिलब्धिः, तद्भावे सतोप्यर्थ
१ स्वकारणव्यतिरिक्ते स्पर्शादावाभिमुख्यं नास्ति यदि । २ पूर्वानुमानप्रकारेण । ३ स्वेष्टानिष्टयोरर्थयोः। ४ लोके। ५ अनुमानादि । ६ आचार्यः। ७ इन्द्रियानिन्द्रिययोर्मध्ये । ८ सर्वाङ्गगतत्वम् , जिला, नासा, गोलकपक्ष्मपुट, कर्णशष्कुलीति पञ्चसंख्यात्मकम् । ९ सर्वथा। १० चतुर्थे ।
प्र. क० मा० २.