________________
२२८
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० भ्रमः, तदभावस्याप्याशु प्रवृत्तेरावविभ्रमः किन्न स्यात् ? भाव. पक्षस्य बलीयस्त्वमित्ययुक्तम् ; भावाभावयोः परस्परं खकार्यकरणं प्रत्यविशेषात् ।
कथं च लमलजलान्तरितार्थस्योपलम्भो न स्यात् ? ये हि तन५ श्मयः कठिनमतितीक्ष्णलोहाऽभेद्यं स्फटिकादिकं मिन्दन्ति तेषां जलेऽतिद्रवखभावे काऽक्षमा? अथ नीरेण नाशितत्वान्न ते तद्भिन्दन्ति, तर्हि स्वच्छजलव्यवस्थितस्याप्यनुपलम्भप्रसङ्गः । योग्यताङ्गीकरणे सर्व सुस्थम् । ततः प्रोक्तदोषपरिहारमिच्छता
प्रतीतिसिद्धमप्राप्यकारित्वं चक्षुषोऽभ्युपगन्तव्यम् । १. तथाहि-'चक्षुरप्रातार्थप्रकाशकमत्यासनाप्रकाशकत्वात ,य.
पुनः प्राप्तार्थप्रकाशकं तदत्यासन्नार्थप्रकाशकं दृष्टं यथा श्रोत्रादि, अत्यासन्नार्थाप्रकाशकं च चक्षुस्तस्मादप्राप्तार्थप्रकाशकम्' इति । न चायमसिद्धो हेतुः; काचकामलार्वत्यासन्नार्था
प्रकाशकत्वस्य चक्षुषि प्रागेव प्रसाधितत्वात् । ननु साध्याविशि१५ टोयं हेतुः, 'पर्युदासप्रतिषेधे हि यदेवस्याप्राप्यकारित्वं तदेवात्या
सन्नार्थाप्रकाशकत्वम्' इति । प्रसज्यप्रतिषेधस्तु जैनै भ्युपगम्यते अपसिद्धान्तप्रसङ्गात् ; इत्यप्यनुपपन्नम् ; प्रसङ्गसाधनत्वादेतस्य। श्रोत्रादौ हि प्राप्यकारित्वात्यासन्नार्थप्रकाशकत्वयोर्व्याप्यव्यापक
भावसिद्धौ सत्यां परस्य व्यापकाभावेष्ट्याऽत्यासन्नार्थाप्रकाशकत्व२० लक्षणयाऽनिष्टस्य प्राप्यकारित्वलक्षणव्याप्याभावस्यापादानमात्रमेवानेन विधीयते, इत्युक्तदोषाप्रसङ्गः। नाप्यनैकान्तिको विरुद्धो वा; विपक्षस्यैकदेशे तत्रैव वाऽस्याऽप्रवृत्तः।
न च स्पर्शनेन प्राप्यकारिणाप्यत्यासन्नस्याभ्यन्तरशरीरावयवस्पर्शस्याप्रकाशनादनेकान्तः; अस्य तत्कारणत्वेन तदविषय२५ त्वात् । स्वकारणव्यतिरिक्तो हि स्पर्शादिः स्पर्शनादीन्द्रियाणां
१ बलीयस्त्वादित्यर्थः । २ दलीयस्त्वस्य । ३ समलजले शक्तिर्नास्ति स्वच्छजलेस्ति तर्हि योग्यतैव कारणम् । ४ अप्राप्तार्थप्रकाशकत्वेपि न सकलार्थग्राहकं चक्षुः । यत्र योग्यता तं प्रकाशयति यत्र योग्यता नास्ति तं न प्रकाशयतीति । ५ नैयायिकेन । ६ कामलादि । ७ शब्दादिकं प्रकाशयत् । ८ आदिपदेनाजनादि। ९ साध्यसम इत्यर्थः। १० हेतुस्थितनको विचारः। ११ अत्यासन्नाथ न प्रकाशयतीति । १२ सर्वथा तुच्छाभावः। १३ अन्यथा। १४ ( जैनो वक्ति) परेष्टयाऽनिष्टापादनं प्रसङ्गसाधनम् । १५ अनुमानस्य । १६ नैयायिकस्य । १७ चक्षुषीत्यध्याहियते । १८ चक्षुषा। १९ अनुमानेन । २० प्राप्यकारित्वस्य । २१ हेतोः। २२ तस्य. उपादानकारणत्वेन, न तु निमित्तकारणत्वेन ।