SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ सू० २।४] चक्षुःसन्निकर्पवादः २२७ तिषिद्धत्वात् । तथा चेदमयुक्तम्-"वत्तूरकपुप्पवदादौ सूक्ष्माणामप्यन्ते महत्त्वं तद्रश्मीनां महापर्वतादिप्रकाशकत्वान्यथानुपपत्तेः।”[ ] इति; स्वरूपतोऽसिद्धानां तेषां महत्त्वादिधर्मस्य श्रद्धामात्रगम्यत्वात् । ततो रश्मिरूपचक्षुपोऽप्रसिद्धोलकस्य च प्राप्यकारित्वे प्रत्यक्षबाधितत्वात्कस्य प्राप्तार्थप्रकाशकत्वं साध्येत?५ यदि च स्पर्शनादौ प्राप्यकारित्वोपलम्भाच्चक्षुपि तत्साध्येत; तर्हि हस्तादीनां प्राप्तानामेवान्याकर्षकत्वोपलम्भादयस्कान्तादीनां तथा लोहाकर्षकत्वं किन्न साध्येत ? प्रमाणवाधान्यत्रापि । अथार्थेन चक्षुषोऽसम्वन्धे कथं तत्र ज्ञानोदयः? क एवमाह'तत्र ज्ञानोदयः' इति ? आत्मनि ज्ञानोदयाभ्युपगमात् । न चापा-१० प्यकारित्वे चक्षुपः सकृत्सर्वार्थप्रकाशकत्वप्रसङ्गः, प्रतिनियतशक्तित्वाद्भावानाम् । 'य एव यत्रं योग्यः स एव तत्करोति' इत्यनन्तरमेव वक्ष्यते । कार्यकारणयोरत्यन्तभेदेऽर्थान्तरत्वाविशेषात् 'सर्वमेरमात्कुतो न जायेत' इति, 'रश्मयो वा लोकान्तं कुतो न गच्छन्ति' इति चोये 8वतोपि योग्यतैव शरणम्। १५ किञ्च, चक्षू रूपं प्रकाशयति संयुक्तसमवायसम्बन्धात् , स चास्य गन्धादावपि समान इति तमपि प्रकाशयेत् । तथा चेन्द्रियान्तरवैयर्थ्यम् । योग्यताऽभावात्तदप्रकाशने सर्वत्र सैवास्तु, किमन्तर्गडुना सम्बन्धेन ? यदि चायमेकॉन्तश्चक्षुषा सम्बद्धस्यैव ग्रहणमितिः कथं तर्हि स्फटिकाद्यन्तरितार्थग्रहणम् ? तेंद्रश्मीनां २० तं प्रति गच्छतां स्फटिकाद्यवयविना प्रतिवन्धात् । तैस्तस्य नाशितत्वाद्दोषे तद्व्यवहितार्थोपलम्ससमये स्फटिकादेरुपलम्भो ने स्यात् । तस्योपरि स्थितद्व्यत्य च पातप्रसक्तिः आधारभूतस्यावयविनो नाशात् । न हि परसाणवो दृश्याः कस्यचिदाधारा वा; अवयविकल्पनानर्थक्यप्रसङ्गात् । अवयव्यन्तरस्योत्पत्तेरदोषे २५ तदा तद्व्यवहितार्थानुपलम्भप्रसङ्गः । न चैवम् , युगपत्योर्निरन्तरमुपलम्भात् । अथाशु व्यूँहान्तरोत्पत्तेर्निरन्तरस्फटिकादिवि १ अप्राप्ताकर्षकाणाम् । २ प्राप्तत्वप्रकारेण। ३ प्रत्यक्षवाधा। ४ चक्षुष्यपि । ५ जैनैः। ६ चक्षुरादीनाम् । ७ कुत एतदित्याह । ८ कायें। ९ कार्यकारणभावनियमे न योग्यता कारणं किन्त्वन्यदेव कारणमित्युक्ते आह । १० कार्यम् । ११ कारणात् । १२ भिन्नत्वाविशेषात् । १३ जैनैः । १४ नैयायिकस्य । १५ कार्यनियमे । १६ सन्निकर्षण। १७ नियमः। १८ तस्य चक्षुषः। १९ नष्टत्वात् । २० कलशादेः। २१ अन्यथा । २२ एकस्य नाशेऽपरस्योत्पत्तेः। २३ स्फटिकस्फटिकान्तरितार्धयोः । २४ स्कन्धान्तरस्य ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy