SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ २२६ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० सति' इति विशेषणेप्यालोकार्थलन्निकण चक्षुरूपयोः संयुक्तसमवायसम्वन्धेन चानेकान्तः।'द्रव्यत्वे करणत्वे च साति तत्य. काशकत्वात् इति विशेषणेपि चन्द्रादिनानेकान्तः। किञ्च, ट्रॅव्यं रूपप्रकाशकं भासुररूपम् , अभासुररूपं वा? ५प्रथमपक्षे उष्णोदकसंसृष्टमपि तत् तत्प्रकाशकं स्यात् । अनदत रूपत्वान्नेति चेत्, नायनरश्मीनामप्यत एव तेन्माभूत् । तथा दृष्टत्वादित्यप्यनुत्तरम्; संशयात्, न हि तंत्र निश्चयोस्ति ते तत्प्रकाशका न गोलक मिति । अनुद्भूतरूपस्य तेजोद्रव्यस्य दृष्टा न्तेपि रूपप्रकाशकत्वाप्रतीतेः। तथाच, न चक्षू रूपप्रकाशकम१० नुद्भूतरूपवाजलसंयुक्तानलवत् । द्वितीयपक्षेपि उष्णोदकतेजो रूपं तत्प्रकाशकं स्यात् । न हि तत्तत्र नष्टम् , 'अनुभूतम्' इत्य भ्युपगमात् । उद्भूतं तत्तत्प्रकाशकमित्यभ्युपगमे रूपप्रकाशस्तंद. न्वयव्यतिरेकानुविधायी तस्यैव कार्यो न द्रव्यय । न खलु देव दत्तं प्रति पश्वादीनामागमनं तहुणान्वयव्यतिरेकानुविधायि देव. १५ दत्तस्य कार्यम् । ततो 'द्रव्यत्वे सति' इति विशेषणासिद्धिः। किञ्च, सम्बन्धादेरिवाऽतैजसस्यापि द्रव्यरूपकरणस्य कस्यचि. द्रूपज्ञानजनकत्वं किन्न स्यात् , विक्षव्यावृत्तः सन्दिग्धत्वादतैजसत्वे रूपज्ञानजनकत्वस्याविरोधात् ? तदेवं तैजलत्वासिद्धनीतश्चक्षुषोरश्मिवत्त्वसिद्धिः। २० अथान्यतः सिद्धानां रश्मीनां ग्राह्यार्थसम्बन्धोनेन साध्यते; न; अन्यतः कुतैश्चित्तेषामसिद्धेः, प्रत्यक्षादेस्तत्साधकत्वेन प्राक्प्र १ सन्निकर्षाः संयुक्तसमवायादयः करणं भवन्ति न तु तैजसम् । २ चक्षुषा संयुक्ते घटे रूपस्य समवायसम्बन्ध इत्यतः सन्निकषोंपि संयुक्तसमवाय एवात्र । ३ तेजोद्रव्ये सन्निकर्षादयो गुणास्तद्वयवच्छेदार्थ द्रव्यत्वे सतीति विशेषणम् । ४ चक्षुस्तैजसं द्रव्यत्वे करणत्वे च सति रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् । ५ रूप । ६ चन्द्रे तैजसत्वाभावात् । ७ तेजोद्रव्यम् । ८ भासुररूपस्य । ९ रूपप्रकाशकत्वम् । १० अनुद्भूतरूपस्यापि तेजोद्रव्यस्य रूपप्रकाशकत्वेन । ११ तेजोद्रव्ये । १२ रूप । १३ भासुर । १४ उष्णोदकगततेजोरूपम् । १५ रूप । १६ परेण । १७ रूप । १८ उद्भूततेजोरूपस्य । १९ गोलकगतोद्भूततेजोरूपस्य । २० तेजोद्रव्यस्य । २१ मत्रतत्रादि । २२ किन्तु देवदत्तगुणस्यैव कार्यम्। २३ सन्निकर्षादि । २४ आदिपदेन संयोगस्य चन्द्रादेश्च । २५ गोलकरूपस्य । २६ विपक्षादतैजसाजलादेः। २७ रूपञ्चानजनकत्वहेतोः । २८ यत्तैजसं न भवति तन्न रूपप्रकाशकमिति । २९ जलादीनाम् । ३० तैजसत्वादिति हेतोः । ३१ द्वितीयपक्षः । ३२ इति चेन्न । ३३ प्रमाणात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy