SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ सू० २।४] चक्षुःसन्निकर्षवादः २२५ अथ 'चक्षुस्तैजसं रूपादीनां मध्ये रूपस्य प्रकाशकत्वात् प्रदीपवत्' इत्यनुमानान्तरात्तत्सिद्धिः, न; अत्रापि गोलकस्य भासुररूपोष्णस्पर्शरहितस्य तैजसत्वसाधने पक्षस्य प्रत्यक्षवाधा, 'न तैजसं चक्षुः तम प्रकाशकत्वात् , यत्पुनस्तैजसं तन्न तमःप्रकाशकं यथालोकः' इत्यनुमानवाधा च । प्रसाधयिष्यते च ५ 'तमोक्त' इत्यत्र तमसः सत्त्वम् । प्रदीपवत्तैजसत्वे चास्यालोकापेक्षा न स्यादुष्णस्पर्शादितयोपलम्भश्च स्यात्, न चैवम् , तदपेक्षतया मनुष्यपारावतवलीवर्दादीनां धवललोहितकॉलरूपतयानुष्णस्पर्शस्वभावतया चास्योपलम्भात् । तन्न गोलकं चक्षुः। नाप्ययंत्तनांहकप्रमाणाभावेनाश्रयासिद्धत्वप्रसङ्गाद्धेतोः ।१० 'रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात्' इति हेतुश्च जलांजनचन्द्रमाणिक्यादिभिरनैकोन्तिकः। तेषामपि पक्षीकरणे पक्षस्य प्रत्यक्षबाधा, सर्वो हेतुरव्यभिचारी च स्यात्। न च जलाधन्तर्गतं तेजोद्रव्यमेव रूपप्रकाशकमित्यभिधातव्यम् ; सर्वत्र दृष्टहेतुवैफल्या. पत्तेः। तथा च दृष्टान्तासिद्धिः, प्रदीपादावप्यन्यस्यैव तत्प्रकाश १५ कस्य कल्पनाप्रसङ्गात् । प्रत्यक्षवाधनमुभंयत्र । निराकरिष्यते च "नार्थालोको कारणम्" [परी० २०६] इत्यत्रालोकस्य रूपप्रकाशकत्वम् । किञ्च, रूपप्रकाशकत्वं तत्र ज्ञानजनकत्वम् । तच्च कारणविषयवादिनो घटादिरूपस्याप्यस्तीत्यनेन हेतोर्व्यभिचारः । 'करणत्वे २० १ रूपस्येत्युच्यमाने आत्ममनोभ्यां व्यभिचारस्तत्परिहारार्थ रूपयैवेत्युक्तन् । रूपयन प्रकाशकत्वादित्युच्यमाने असिद्धत्वन् । कुतः ? द्रव्यद्रव्यत्वयोरपे चक्षुत्रः प्रकाशनात् । तत्परिहारार्थ रूपादीनां मध्ये इत्युक्तम् । अनेन द्रव्यद्रव्यत्वयोः परिहारः-रूपादीनां गुणानामेव निर्धारितत्वात । २ इति यदुक्तं तन्नेत्यर्धः। ३ नार्थालोको कारणं परिच्छेद्यत्वात्तमोवदित्यस्य सूत्रस्य व्याख्यावसरे । ४ चक्षुषः । ५ आदिपदेन स्फोटादि । ६ कृष्ण । ७ धर्मि। ८ रश्मिरूपम् । ९ रश्मिरूपचक्षुषः। १० रूपस्याप्येते प्रकाशकाः। ११ आदिपदेन काचादिभिरपि । १२ यद्रूपादीनां मध्ये रूपस्येव प्रकाशकं तत्तैजसमित्युक्ते जलाअनादिभिहेंतुर्व्यभिचारी स्यादित्यर्थः। १३ कार्ये। १४ कारण। १५ पिशाचादेः। १६ रूप। १७ जलादेरेव रूपप्रकाशकत्वोपलम्भादन्यस्य । रूपप्रकाशकत्वकल्पनेपि। १८ साधनविकलो दृष्टान्त इति निरूपितमनेन। १९ यत्कारणं ज्ञानं जनयति तदेव शानस्य विषयो भवतीति । २० ज्ञानस्य । २१ नैयायिकस्य । २२ घटादिरूपं रूपज्ञानजनकं न तु तैजसम् । २३ प्रकाशकत्वादित्यस्य । तैजसत्वसाध्यस्याभावो(वे)पि साधनमस्ति यतः । २४ चक्षुस्तैजसं करणत्वे सति रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वादिस्युक्तपीत्यर्थः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy