________________
२२४
प्रमेयकमलमार्तण्डै २. प्रत्यक्षपरि० प्रतिवन्धकः, तथान्यंत्र तमः । ततो यथानुपलभान्न सन्ति रात्रौ भास्करकरास्तथान्यदा नायनकरा इति।
एतेन 'दूरस्थितकुड्यादिप्रतिफलितानां प्रदीपरश्मीनामन्तराले सतामप्यनुपलम्भसम्भवात् तैरनुपलस्भो व्यभिचारी; इत्यपि ५ निरस्तम् ; आदित्यरश्मीनामपि रात्रावभावासिद्धिप्रसङ्गात् ।
अथोच्यते-चक्षुः स्वरश्मिसम्बद्धार्थप्रकाशकम् तैजसत्वाप्रदीपवत् । ननु किमनेन चक्षुषो रश्मयः साध्यन्ते, अन्यतः सिद्धानां तेषां ग्राह्यार्थसम्वन्धो वा? प्रथमपक्षे पक्षस्य प्रत्यक्ष
वाधा, नरनारीनयनानां प्रभासुररश्मिरहितानां प्रत्यक्षतः प्रतीतेः। १० हेतोश्च कालात्ययापदिष्टत्वम् । अथादृश्यत्वात्तेषां न प्रत्यक्षबाधा पक्षस्य । नन्वेवं पृथिव्यादेरपि तत्सत्त्वप्रसङ्गः, तथा हि-पृथिव्यादयो रश्मिवन्तः सत्त्वादिभ्यः प्रदीपवत् । यथैव हि तैजसत्वं रश्मिवत्तया व्याप्तं प्रदीपे प्रतिपन्नं तथा सत्त्वादिकमपि । अथ तेषां तत्साधने प्रत्यक्षविरोधः; सोन्यत्रापि समान इत्युक्तम् । १५ ननु मार्जारादिचक्षुषोः प्रत्यक्षतः प्रतीयन्ते रश्मयः तत्कथं
तद्विरोधः ? यदि नाम तत्र प्रतीयन्तेऽन्यत्र किमायातम् ? अन्यथा हेग्नि पीतत्वप्रतीतौ पटादौ सुवर्णत्वसिद्धिप्रसङ्गः । प्रत्यक्षवाधनमुर्भयत्रापि।
किञ्च, मार्जारादिचक्षुषोर्भासुररूपदर्शनादन्यत्रापि चक्षुषि २० तैजसत्वंप्रसाधने गवादिलोचनयोः कृष्णत्वस्य नरनारीनिरीक्षणयोर्धावल्यस्य च प्रतीतेरविशेषेण पार्थिवत्वमाप्यत्वं वा साध्यताम् । कथं च प्रभासुरप्रभारहितनयनानां तैजसत्वं सिद्धं यतः सिद्धो हेतुः? किमत एवानुमानात्, तदन्तराद्वा? आद्यविक
ल्पेऽन्योन्याश्रयः-सिद्ध हि तेषां रश्मिवत्त्वे तैजसत्वसिद्धिः, ततश्च २५ तत्सिद्धिरिति।
१ जैनमते । २ रात्रौ। ३ नराणां प्रतिबन्धकम् । ४ दिवा। ५ अपि न सन्ति । ६ रात्रौ दिनकरकराणामभावसाधनपरेण ग्रन्थेन। ७ प्रतिबिम्बितानाम् । ८ प्रदीपकुड्यायोः । ९ जैनैः । १० अन्यथा। ११ न सन्त्यनुपलभ्यमानत्वादिति । १२ अनुमानेन। १३ प्रमाणात् । १४ मार्जारादिनयनेषु । १५ नरनारीनयनेषु । १६ अन्यत्र प्रतीतस्यान्यत्र विधिर्यदि । १७ हेम्नि पीतत्वात्पटे सुवर्णत्वसाधने प्रत्यक्षबाधनं यथा तथा तैजसत्त्वाच्चक्षुषि रश्मिवत्त्वसाधने च प्रत्यक्षबाधनम् । १८ नरनयनं रश्मिवत् तेजसत्वान्मार्जारादिचक्षुर्वदिति । १९ भशेषनेत्राणाम् । २० तैजसत्वादित्यस्मात् ।