________________
सू० २।२] अभावस्य प्रत्यक्षादावन्तर्भावः
२१३ प्रध्वंसाभावस्यापि प्रध्वस्तपदार्थाश्रयत्वप्रसङ्गः । न चानुत्पन्नः प्रध्वस्तो वार्थः कस्यचिदाश्रयो नाम अतिप्रसङ्गात् ।।
अथैक एव प्रागभावो विशेषणभेदाद्भिन्न उपचर्यते 'घटस्य प्रागभावः पटादेवी' इति, तथोत्पन्नार्थविशेषणतया तस्य विनाशेप्युत्पत्स्यमानार्थविशेषणत्वेनाविनाशान्नित्यत्वमपीति । नन्वेवं५ प्रागभावादिचतुष्टयकल्पनानर्थक्यम् सर्वत्रैकस्यैवाभावस्य विशेपणभेदात्तथा भेदव्यवहारोपपत्तेः । कार्यस्य हि पूर्वेण कालेन विशिटोर्थः प्रागभावः, परेण विशिष्टः प्रध्वंसाभावः, नानार्थविशिष्टः सं एवेतरेतराभावः, कालत्रयेप्यत्यन्तनानास्वभावभावविशेषणोऽत्यन्ताभावः स्यात्, प्रत्ययभेदस्यापि तथोपपत्तेः, . सत्तै-१० कत्वेपि द्रव्यादिविशेषणभेदात्प्रत्ययभेदवत् । यथैव हि सत्प्रत्ययाविशेषाद्विशेषलिङ्गाभावाच्चैकत्वं सत्तायाः तथैवासत्प्रत्ययाविशेषलिङ्गाभावाच्चाभावस्यापि । अथ 'प्राग्नासीत्' इत्यादिप्रत्ययविशेषाच्चतुर्विधोऽभावः, तर्हि प्रागासीत्पश्चाद्भविष्यति सम्प्रत्यस्तीति कालभेदेन, पाटलिपुत्रेस्ति चित्रकूटेस्तीति देशभेदेन, द्रव्यं १५ गुणः कर्म चास्तीति द्रव्यादिभेदेन च प्रत्ययभेदसद्भावात्प्राक्स. तादयः सत्तामेदाः किन्नेष्यन्ते ? प्रत्ययविशेपात्तद्विशेषणान्येव भिद्यन्ते तस्यै तन्निमित्तकत्वान्न तु सत्तौं, ततः सैकैवेत्यभ्युपगमे अभावभेदोपि मा भूत्सर्वथा विशेषाभावात् । . . __ अथाभिधीयते-'अभावस्य सर्वथैकत्वे विवक्षितकार्योत्पत्तौ २० प्रागभावस्याभावे सर्वत्राभावस्याभावानुषङ्गात्सर्व कार्यमाद्यनन्तं सर्वात्मकं च स्यात् । तदप्यभिधानमात्रम् ; सत्तैकत्वेपि समानत्वात् । विवक्षितकार्यप्रध्वंसे हि सत्ताया अभावे सर्वत्राभावप्रसङ्गः तस्या एकत्वात् , तथा च सकलशून्यता। अथ तत्प्रध्वंसेपि नास्याः
१ प्रागभावस्य प्रध्वंसाभावस्य वा । २ अनुत्पन्नः प्रध्वस्तो वा स्तम्भः प्रासादस्याश्रयो भवेत् । ३ घटाद्यर्थ । ४ प्रागभावस्य । ५ घटादि । ६ प्रागभावादिप्रकारेण । ७ पटलक्षणस्योत्पत्तेः सकाशात् । ८ अर्थः। ९ घटपटशकटादि। १० अभावलक्षणोर्थः । ११ अत्यन्तं सर्वथा नाना (भिन्नाः) स्वभावा येषां तेऽत्यनानास्वभावा गगनाम्भोजखरविषाणादयस्ते च ते भावाश्च ते विशेषणं यस्यामावस्य। १२ प्रत्ययो ज्ञानम् । १३ विशेषणभेदादेव । प्रागभावस्यैकत्वकल्पनाप्रकारेण। १४ द्रव्यं सद्गुणः सन्कर्म सत् । १५ परमते। १६ जैनमते एकत्वम् । १७ घटः। १८ कारण । १९ आदिपदेन पश्चात्सत्ता सम्प्रतिसत्ता च ग्राह्या। २० परेण भवता । २१ घटाद्यर्थाः। २२ प्रत्ययविशेषस्य । २३ (सत्तायाः विशेषणनिमित्तकत्वाभावादित्यर्थः)। २४ प्रागभावाभावादनादि प्रध्वंसाभावाभावादनन्तम् । २५ इतरेतराभावाभावाद ।