SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ २१२ प्रमेयकमलमार्तण्डे ..[२. प्रत्यक्षपरि० यदप्युक्तम्-'न भावखभावः प्रागभावादिः सर्वदा आवविशेष. णत्वात्' इति; तदप्युक्तिमात्रम्; हेतोः पक्षाव्यापकत्वात् , 'न प्रागभावः प्रध्वंसादौ इत्यादेरभावविशेषणस्याप्यभावस्य प्रसिद्ध गुणादिनानेकान्ताच्च; अस्य सर्वदा आवविशेषणत्वेपि भावख. ५भावात् । 'रूपं पश्यामि' इत्यादिव्यवहारे गुणस्य स्वतन्त्रस्यापि प्रतीतेः सर्वदा भावविशेषणत्वाभावे 'अभावस्तत्त्वम्' इत्यमावस्यापि स्वतन्त्रस्य प्रतीतेः शश्वद्भावविशेषणत्वं न स्यात् । सामर्थ्यात्तद्विशेष्यस्य द्रव्यादेः सम्प्रत्ययात्सदास्य भावविशेषणत्वे गुणादेरपि सर्वदा भावविशेषणत्वमस्तु, तद्विशेष्यस्य द्रव्यस्य १० सामर्थ्यतो गम्यमानत्वात् । किञ्च, प्रागभावः सादिः सान्तः परिकल्प्यते, सादिरनन्तः, अनादिरनन्तः अनादिः सान्तो वा? प्रथमपक्षे प्रागभावात्पूर्व घटस्योपलब्धिप्रसङ्गः, तद्विरोधिनः प्रागभावस्याभावात् । द्वितीयेपि तदुत्पत्तेः पूर्वमुपलब्धिप्रसङ्गस्तत एव । उत्पन्ने तु प्रागभावे १५ सर्वदानुपलब्धिः स्यात्तस्यानन्तत्वात् । तृतीये तु सदानुप लब्धिः । चतुर्थे पुनः घटोत्पत्तौ प्रागभावस्थाभावे घटोपलब्धिवदशेषकार्योपलब्धिः स्यात् , सकलकार्याणामुत्पत्स्यमानानां प्रागभावस्यैकत्वात् । ननु यावन्ति कार्याणि तावन्तस्तत्प्रागभावाः, तत्रैकस्य प्राग२० भावस्य विनाशेपि शेषोत्पत्स्यमानकार्यप्रागभावानामविनाशान घटोत्पत्तौ सकलकार्योपलब्धिरिति; तर्झनन्ताः प्रागभावास्ते किं स्वतन्त्राः, भावतन्त्रा वा? स्वतन्त्राश्चेत्कथं न भावखभावाः कालादिवत् ? भावतन्त्राश्चेत्किमुत्पन्नभावतन्त्राः, उत्पत्स्यमानभावतन्त्रा वा? न तावदादिविकल्पः समुत्पन्नभावकाले २५ तत्प्रागभावविनाशात् । द्वितीयविकल्पोपि न श्रेयान् ; प्रागभावकाले स्वयमसतामुत्पत्स्यमानभावानां तदाश्रयत्वायोगात्, अन्यथा १ दण्डेन रूपेण च व्यभिचारः स्यात्तत्परिहारार्थ सर्वदेति विशेषणं दण्डस्य कदाचिद्विशेष्यरूपतयापि भावात्। कथम् ? दण्डं पश्यामीति । २ यतोऽभावोप्यभावस्य विशेषणं भवेत् भावोऽभावस्यापि । ३ प्रागभावो विशेषणमत्र । ४ अतोऽभावोऽभावस्य विशेषणमपि भवेद्भावोऽभावस्यापि। ५ घटस्य । ६ विशेष्यत्वेन । ७ अभावस्तत्त्वम् । कस्य ? घटस्येति। ८ यथा अभावः कस्येत्युच्यमाने पटस्येति, तथा गुणाः कस्य । द्रव्यस्येति । ९ विनाशोपेतः। १० घटस्य । ११ घटस्य । १२ तद्विरोधिनः प्रागभावस्य सर्वदा भावादेव। १३ घटादिकार्यस्य । १४ घटोत्पत्तौ घटोपलब्धि क्दशेषकार्योपलब्धि परिहरति परः। १५ तेषां प्रागभावानाम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy