SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सू० २।२] .. अभावस्य प्रत्यक्षादावन्तर्भावः ..किञ्च, अनेन घटे पटः प्रतिषिध्यते, पटत्वसामान्यं वा, उभयं ar? प्रथमपक्षे किं पटविशिष्टे घटे पटः प्रतिषिध्यते, पटविविक्ते वा ? न तावदाद्यः पक्षो युक्तः, प्रत्यक्षविरोधात् । नापि द्वितीय तथाहि-किमितरेतराभावादन्या घटस्य पटविविक्तता, स एव वा विविक्तताशब्दाभिधेयः ? भेदे; तयैव घटे पटाभावव्यवहारसिद्धः५ किमितरेतराभावेन ? अथ स एव तच्छब्दाभिधेयः; तर्हि यस्सादभावात्पटविविक्ते घटे पटाभावव्यवहारः सोन्योऽभावः, विविक्तताशब्दाभिधेयश्चान्य इत्येकस्मिन्वस्तुनीतरेतराभावद्वयमायातम् । .. किञ्च, 'घटे पटो नास्ति' इति पटरूंपताप्रतिषेधः, सा कि प्राप्ता प्रतिपिध्यते, अप्राप्ता वा? प्राप्तायाः प्रतिषेधे पटेपि पटरू-१० पताप्रतिषेधः स्यात् प्राप्तेरविशेषात् । अप्राप्तायास्तु प्रतिषेधानुपपत्तिः, प्राप्तिपूर्वकत्वात्तस्य । न ह्यनुपलब्धोदकस्य 'अनुदका कमण्डलुः' इति प्रतिषेधो घटते । अथान्यत्र प्राप्तमेव पटरूपमन्यत्र प्रतिषिध्यते; तत्रापि समवायप्रतिषेधः, संयोगप्रतिषेधो वा? न तावत्समवायप्रतिषेधः; रूपादेरेकंत्र समवायेन सम्बद्ध-१५ स्यान्यत्र वस्त्वन्तरेऽन्योन्याभावतोऽभावव्यवहारानुपलम्भात् । संयोगप्रतिषेधोप्यनुपपन्नः; घटपटयोः कदाचित्संयोगस्यापि सम्भवात् । अथ पटेन संयोगरहिते घटे पटप्रतिषेधो न तत्सं. योगवति । नन्वेवं पटसंयोगरहितत्वमेवाभावोस्तु, न त्वन्यस्मादभावात्पटसंयोगरहिते घटे पटाभाव इति युक्तम् । तन्न घटे २० पटप्रतिषेधो युक्तः। नापि पटत्वप्रतिषेधः; तस्याप्येकत्र सम्वद्धस्यान्यत्र सम्वन्धाभावादेव प्रतिषेधानुपपत्तेः । नॉप्युभयप्रतिषेधः, प्रागुक्ताशेषदोषानुषङ्गात् । . किञ्च, इतरेतराभावप्रतिपत्तिपूर्विका घटप्रतिपत्तिः, घटग्रहण-२५ पूर्वकत्वं वेतरेतराभावग्रहणस्य? आद्यपक्षेऽन्योन्याश्रयत्वम्। तथाहि-'इतरेतराभावो घटसंबन्धित्वेनोपलभ्यमानो घटस्य विशेषणं न पदार्थान्तरसम्वन्धित्वेन, अन्यथा सर्व सर्वस्य विशेषणं . १ उभयं, पटः पटत्वं चेत्यर्थः । तृतीयपक्षोयम् । २ असाधारणस्वरूपता । ३ इतरेतराभावविविक्ततयोः। ४ इतरेतराभावः। ५ पटस्वरूपस्य । ६ एवं परस्या, निष्टापादनं भवति । ७ उभयत्र । ८ पुरुषस्य। ९ आतानवितानीभूतरूपादेः। १०.पटादौ । ११ घटादौ। १२ इतरेतराभावात् । १३ द्वितीयपक्षः। १४ घटे। १५ तृतीयपक्षः। १६ पटपटत्वयोः। १७ घटस्थेतरेतराभावोयमिति ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy