________________
... प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि०. स्यात् । घटसम्वन्धित्वप्रतिपत्तिश्च घटग्रहणे सत्युपपद्यते । सोधि व्यावृत्त एव पटादिभ्यः प्रतिपत्तव्यः । ततो यावत्पूर्व घटसम्बन्धित्वेन व्याहत्तेरुपलम्भो न स्यान्न तावद्ध्यावृत्तिविशिष्टतया घटः प्रत्येतुं शक्यः, यावच्च पटादिव्यावृत्तत्वेन न प्रतिपन्नो घटो ५न तावत्स्वसम्वन्धित्वेन व्यावृत्ति विशेषयति इति ।
अथ घटग्रहणपूर्वकत्वमितरेतराभावग्रहणस्य; अत्राप्यभावो विशेष्यो घटो विशेषणम् । तद्रहणं च पूर्वमन्वेषणीयम् “नागृहीतविशेषणा विशेष्ये वुद्धिः" [ ] इत्यभिधानात् । तत्रापि घटो
गृह्यमाणः पटादिभ्यो व्यावृत्तो गृह्यते, अव्यावृत्तो वा? तंत्र न १० तावत्पटादिभ्योऽव्यावृत्तस्य घटस्य घटरूपता घटते, अन्यथा पटादेरपि तथैव पटादिरूपताप्रसङ्गादभावकल्पनावैयर्थ्यम् । अथ तेभ्यो व्यावृत्तस्य घटस्य घटरूपताप्रतिपत्तिः प्रायते; तत्रापि किं कतिपयपटादिव्यक्तिभ्योऽसौ व्यावर्त्तते, सकल.
पटादिव्यक्तिभ्यो वा? प्रथमपक्षे कुतश्चिदेवासौ व्यावत, न १५सकलपटादिव्यक्तिभ्यः। द्वितीयपक्षेपि न निखिलपटादिभ्योऽस्य व्यावृत्तिर्घटते, तासामानन्त्येन ग्रहणासम्भवात् । इतरेतराश्रयत्वं च, तथाहि-यावत्पटादिभ्यो व्यावृत्तस्य घटस्य घटरूपता न स्यान्न तावद् घटात्पटायो व्यावर्त्तन्ते, यावच्च घटाद्व्यावृत्तानां पटादीनां पटादिरूपता न स्यान्न तावत्पटादिभ्यो घटो व्याव२०र्तते इति।
अस्तु वा यथाकथञ्चित्पटादिभ्यो घटस्य व्यावृत्तिः, घटान्तरात्तु कथमसौ व्यावर्त्तते इति सम्प्रार्यम्-किं घटरूपतया, अन्यथा वा? यदि घटरूपतया; तर्हि सकलघटव्यक्तिभ्यो व्याव
र्तमानो घटो घटरूपतामादाय व्यावर्त्तत इत्यायातम् अघटत्वम२५ न्यासां घटव्यक्तीनाम् । अथाघटरूपतया; तत्किमघटरूपता पटादिवद् घटेप्यस्ति ? तथा चेत् ; तर्हि यो व्यावर्त्तते घटान्तरा. घटत्वेन घटस्तस्याघटत्वं स्यात् । तच्च विप्रतिषिद्धम्-यद्यघटो घटः, कथं घटः? तस्मानार्थादर्थान्तरमभावः।
• १ इतरेतराभावस्य । २ इतरेतराभावप्रतिपत्तेटप्रतिपत्तिपूर्वकत्वं यतः। ३ इतरेतराभावस्य । ४ घटसम्बन्धिनमितरेतराभावम् । ५ द्वितीयपक्षः। ६ प्रवत्तते । ७ घटस्य पूर्व ग्रहणेपि । ८ पक्षद्वये । ९ जैनमते स्वगतासाधारणधर्मेण घटः पटादिभ्यो व्यावृत्तो भवति, न तु इतरेतराभावादिति । १० पटादिभ्योऽव्यावृत्तस्य घटस्य घटरूपता यदि। ११ समर्थ्यते परेण। १२ ग्रहणे वा सर्वशत्वादिप्रसङ्गः। १३ इतरेतरा. भावः । १४ विचार्यम् । १५ अघटरूपतया। १६ तहिं । १७ विरुद्धम् ।