SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० प्रतियोगिनोपि मरणं वस्त्वन्तरसंस्कृष्टस्या, असंस्कृष्टस्य वा ? यदि संसृष्टस्य तदाऽभावप्रमाणाप्रवृत्तिः । अथासंसृष्टस्य ननु प्रत्यक्षेण वस्त्वन्तरासंसृष्टस्य प्रतियोगिनो ग्रहणे तथास्तस्या स्मरणं त्यान्नान्यथा । तथाभ्युपगमे च तदेवाभावप्रमाणवैयेय ५'वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यं समाश्रिता' इत्यादिग्रन्थविरो. धश्च । वस्तुमात्रस्याध्यक्षेण ग्रहणाभ्युपंगमे प्रतियोगीतैरव्यवहारोभावः। यदि चानुभूतेपि भावे प्रतियोगिस्मरणमन्तरेणाभावप्रतिपत्तिर्न स्यात्, तर्हि प्रतियोग्यप्यनुभूत एव स्मर्तव्यो नान्यथा अति१० प्रसङ्गात् । तदनुभवश्चान्यासंसृष्टतयाऽभ्युपगन्तव्यः, तस्याप्यन्यासंसृष्टताप्रतिपत्तिस्ततोऽन्यत्र प्रतियोगिस्मरणात् तत्राप्ययमेव न्याय इत्यनवस्था । अथ प्रतियोगिनो भूतलस्य स्मरणाद् घटस्यान्यासंसृष्टता प्रतीयते, तत्स्मरणाच्च भूतलस्य तदेतरेतराश्रयः, तथाहि-न यावद्धटासंसृष्टभूभागप्रतियोगिस्सरणाद् घटस्य भूतलासं१५ सृष्टताप्रतिपत्तिर्न तावत्तत्स्मरणोद्भूतलस्य घटासंसृष्टताप्रतिपत्तिः, यावञ्च भूतलस्य घटासंसृष्टता न प्रतीयते न तावत्तत्सरणेन घटस्येति । ततोऽन्यप्रतियोगिस्मरणमन्तरेणैवाभावांशो भावांशवत्प्रत्यक्षोऽभ्युपगन्तव्यः । भूतलासंसृष्टघटदर्शनाहितसंस्कारस्य च पुनर्घटासंसृष्टभूभागदर्शनानन्तरंतथाविधघटस्मरणे सति 'अया. २० त्राँभावः' इति प्रतिपत्तिःप्रत्यभिज्ञानमेव । यदा तु स्वदुरौंगमाहि १ स्मृत्वा च प्रतियोगिनमित्येतद्विचारयति । २ भूतल । ३ भूतलसम्बद्धप्रतियोगिसद्भावग्राहकत्वेनैव प्रत्यक्षस्य प्रवृत्तेः । ४ पूर्वोक्तमेव । ५ आयातम् । ६ प्रत्यक्षेणैवाः भावस्य प्रतीतत्त्वात् । ७ अनवस्थादिदूषणपरिहारं करोति । ८ भूतलमात्रस्थ । ९ अनवस्थादिदोषभयात्परेण। १० घट । ११ भूतल । १२ भूतलस्य । १३ प्रत्यक्षप्रतिपन्ने । १४ भूतललक्षणे । १५ घटस्य । १६ परेण। १७ अन्येन पटेन । १८ परेण । १९ घटस्य । २० पटेन । २१ घटात् । २२ पटे। २३ ग्रन्थान वस्था स्यात् । २४ अनवस्थापरिहारार्थ परः प्राह । २५ भूभागेन । २६ अन्यासंसृष्टता प्रतीयते। २७ घटासंसृष्टभूभागप्रतियोगिस्मरणात् घटस्य भूतलासंसृष्टताप्रतिपत्तिस्तस्यां सत्त्यां भूभागासंसृष्टघट प्रतियोगिस्मरणाद्भूतलस्य घटसंसृष्टताप्रतिपत्तिस्तस्यां सत्यां घटासंसृष्टभूभागसरणाद् धदस्य भूतलासंसृष्टताप्रतिपत्तिरित्यान्वयमुखेनेतरेतराश्रयः । २८ भूभागासंसृष्टघटप्रतियोगि। २९ दृष्टश्रुतानुभूतेथे स्मरणं चोपजायते। ३० घटासंसृष्टभूभाग। ३१ असंसृष्टताप्रतीतिः । ३२ इतरेतराश्रयो यतः । ३३ स्मर्यमाणघटस्य । ३४ प्रतियोगिसरणं विना जायमानं ज्ञानं प्रत्यक्षं प्रतियोगिस्मरणानन्तरमुपजायमानमभावप्रमाणं भविष्यतीत्युक्ते आह । ३५ नरस्य । ३६ सर्यमाणघटस्य । ३७ भूभागे । ३८ दर्शनस्मरणकारणकत्वाविशेषात् । ३९ आविर्भावतिरोभावात्सर्व सर्वत्र विद्यते इति ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy