________________
सू० २।२] अभावस्य प्रत्यक्षादावन्तर्भावः २०५ तसंस्कारः साङ्ख्यस्तथाऽप्रतिपद्यमानः तत्प्रसिद्धसत्त्वरजस्तमोलक्षणविपयनिदर्शनोपदर्शनेन अनुपलब्धिविशेषतः प्रतिवोध्यते तदाप्यनुमानमेवेति काभावप्रमाणस्यावकाशः ? ततोऽयुक्तमु. तम्-'न चाध्यक्षेणाभावोऽवसीयते तस्याभावविषयत्वविरोधात्, नाप्यनुमानेन हेतोरभावात्' इति ।
किञ्च, अभावप्रमाणेनामावग्रहणे तस्यैव प्रतिपत्तिः स्यान्न प्रतियोगिनिवृत्तेः । अभावप्रतिपत्तेस्तन्निवृत्तिप्रतिपत्तिश्चेत् ; सो किं प्रतियोगिस्वरूपसम्बद्धा, असम्बद्धा वा? न तावत्सम्बद्धा; भावाभावयोस्तादात्म्यादिसम्बन्धासंभवस्य वक्ष्यमाणत्वात् । अथासम्वद्धा; तर्हि .. तत्प्रतिपत्तावपि कथं प्रतियोगिनिवृत्ति-१० सिद्धिः अतिप्रसङ्गात्? तैन्निवृत्तेरप्यपरतनिवृत्तिप्रतिपत्त्यभ्युपगमे चानवस्था।
यच्च 'प्रमाणपञ्चकाभावः, तदन्यज्ञानम् , आत्मा वा ज्ञाननिर्मुक्तोऽभावप्रमाणम्' इति त्रिप्रकारतास्येत्युक्तम् । तदप्ययुक्तम् । यतः प्रमाणपञ्चकाभावो निरुपाख्यत्वात्कथं प्रमेयाभावं परिच्छि-१५ न्धात् परिच्छित्तेनिधर्मत्वात् ? अथ प्रमाणपञ्चकाभावः प्रमेया.. भावविषयं ज्ञानं जनयन्नुपैचारादभावप्रमाणमुच्यते; न अभावस्यावस्तुतया तज्ज्ञानजनकत्वायोगात् । वस्त्वेव हि कार्यमुत्पादयति नावस्तु, तस्य संकलसामर्थ्य विकलत्वात्खरविषाणवत् । सामर्थ्य वा तस्य भावरूपताप्रसक्तिः, तल्लक्षणत्वात्परमार्थसतो२० लक्षणान्तराभावात् , सत्तासम्बन्धादेस्तल्लक्षणस्य निषेत्स्यमान
१ अभावं प्रत्यक्षतः । २ दृष्टान्त । ३ अभावन् । ४ इह भूतले घटो नास्ति दृश्यत्वे सत्यनुपलब्धेः । यत्र यस्य दृश्यत्वे सत्यनुपलब्धिस्तत्र तस्याभावो यथा तमसि सत्त्वस्य। ५ विषये। ६ प्रत्यक्षप्रत्यभिज्ञानानुमानैरभावः प्रतीयते यतः। ७ सति । ८ घटाभावस्य । ९ प्रतिपतिः स्यात् । १० निवृत्तिः। ११ अनन्तरमेव प्रध्वंसा. भावनिराकरणे। १२ निवृत्याऽसम्बद्धस्य प्रतियोगिनो घटस्य यथाऽभावः स्यात्तथा पटस्यापि निवृत्याऽसम्बद्ध स्याभावप्रसङ्गः-उभयत्रासम्बद्धत्वाविशेषात् । १३ सा चासो निवृत्तिश्च तन्निवृत्तिस्तस्याः सकाशात् । १४ परेण। १५ प्रतिपत्तिर्घटेन सम्बद्धाऽसम्बद्धेत्यादिप्रकारेण। १६ निषेध्याद्धटादन्यस्य भूतलस्य परिज्ञानम् । १७ परेण । १८ निःस्वभावत्वात् । १९ गगनाम्भोजवत् । २० निरुपाख्यः स्यात्प्रमेयाभावपरिच्छेदकश्च स्यादित्युक्ते सत्याह । २१ निमित्तेऽयमुपचारः प्रमाणभूतज्ञानजनकत्वेन प्रमाणं प्रमाणपञ्चकाभावो न साक्षात्प्रमाणमिति । २२ तन्न। २३ शशशृङ्गवत् । २४ सद्रूपत्वाद् मृत्पिण्डवत् । २५ देशकालस्वभावतया। २६ आदिशम्देन प्रमाणविषयत्वम् । २७ समवायनिराकरणप्रघट्टके।
प्र. क. मा० १८