SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ सू० २।२] अभावस्य प्रत्यक्षादावन्तर्भावः २०३ तैत्सिद्धावितरेतराश्रयः-सिद्धे हि तया तस्यान्यत्र जीवने तद्विशेपितात्तत्प्रदेशाभावादर्थापत्त्युदयः, ततश्च तत्सिद्धिरिति । अथ न निश्चितं सजीवनं तनहाभावविशेषणं येनायं दोषः, किन्तु यदि गृहेऽसन् जीवति तदान्यत्रास्ति' इत्यभिधीयते; तर्हि संशयरूपत्वात्तस्याः कथं प्रामाण्यम् ? या तु प्रमाणं सानु-५ मानमेव । पञ्चावयवत्वमप्यत्र सम्भवत्येव । तथाहि-जीवतो देवदत्तस्य गृहेऽभावो वहिस्तत्सद्भावपूर्वकः जीवतो गृहेऽमावत्वात् प्राङ्गणे स्थितस्य गृहे जीवभाववत् । यद्वा, देवदत्तो बहिरस्ति गृहासंसृष्टजीवनाधारत्वात्स्वात्मवत् । कथं पुनर्देवदत्तस्यानुपलभ्यमानस्य जीवनं सिद्धं येन तद्धतुविशेषणमित्यसत् १० घेसङ्गसाधनोपन्यासात्। यच्च निषेध्याधारवस्तुग्रहणादिसामग्रीत इत्याधुक्तम् । तत्र निषेध्याधारो वस्त्वन्तरं प्रयोगिसंसृष्टं प्रतीयते, असंसृष्टं वा ? तत्राद्यपक्षोऽयुक्तः, प्रतियोगिसंसृष्टवस्त्वन्तरस्याध्यक्षेण प्रतीतौ तत्र तैद्भावग्राहकत्वेनाभावप्रमाणप्रवृत्तिविरोधात् । प्रवृत्तौ वा १५ न प्रामाण्यम् । प्रतियोगिनः सत्त्वेपि तत्प्रवृत्तेः । द्वितीयपक्षे तु अभावप्रमाणवेयर्थ्यम् , प्रत्यक्षेणैव प्रतियोगिनोऽभावप्रतिपत्तेः। अथ प्रतियोग्यसंसृष्टतावगमो वस्त्वन्तरस्याभावप्रमाणसम्पाद्यः; तर्हि तैदप्यभावप्रमाणं प्रतियोग्यसंसृष्टवस्त्वन्तरग्रहणे सति प्रैवलेत, तदसंसृष्टतावगमश्च पुनरप्यभावप्रमाणसम्पाद्य इत्यन-२० वस्था । प्रथमाभावप्रमाणात्तदसंसृष्टतावगमे चान्योन्याश्रयः। १ बहिर्जीवन । २ बहिजीवन । ३ गृह । ४ इतरेतराश्रयः । ५ यदि जीवति तदा बहिरस्ति यदि न जीवति तदा नास्तीत्यर्थः। ६ जीवनस्य संशयितत्वात् । ७ अन्यत्र जीवनानिश्चयात् । ८ एषार्थापत्तिर्यथाऽप्रमाणं तथा सर्वाप्यप्रमाणं स्यादित्यारेकायामाह। ९ पञ्चावयववस्वाभावे कथमर्थापत्तेरनुमानत्वमिति परेणोक्ते सत्याह । २० प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः। ११ मृतेन व्यभिचारपरिहारार्थमेतत् । १२ प्रमातृस्वरूपवत् । १३ अभावरूपहेतोः। १४ साध्यसाधनयोप्प्यव्यापकभावसिद्धौ व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र (अर्थे) प्रदश्यते तत्प्रसङ्गसाधनम् । १५ घट। १६ भूतल। १७ आदिपदेन प्रतिषेध्यस्मरणमुपलब्धिलक्षणप्राप्तस्य घटादेरनुपलम्भश्च । १८ भूतलम् । १९ घटेन । २० रहितम् । २१ घटाभाव। २२ अभावप्रमाणस्य । २३ अभावावगमः। २४ भूवलस्य । २५ आद्यम् । २६ उत्पद्येत । २७ प्रथमाभावप्रमाणात्प्रतियोग्यसंसृष्टतावगमः तदकरामश्च प्रथमाभावप्रमाणोदये इति ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy