________________
सू० २।२] शक्तिस्वरूपविचारः
१९७ व्यपदेशार्थमुपकारान्तरपरिकल्पनया शक्यन्तरपरिकल्पनात् । अनर्थान्तरभूतोपकारकरणे तु स एव कृतः स्यात् । तथा च न शक्तिमानसौ तत्कार्यत्वाप्रसिद्धतत्कार्यत्वात् । शक्तिमतापि-शक्यन्तरान्वितेन, तद्रहिदेव या शक्तरुपकारः क्रियते? आद्यपक्षे शक्त्यन्तराणां ततो मेदः, अनेदोवा? उभयत्रानन्तरोक्तोभयदोषानुषङ्गोऽनवस्था च तद्रहितेलानेन शक्तेल्पकारे तु प्राच्यशक्ति-५ कल्पनाप्यपार्थिका तद्व्यतिरेकेणैव कार्यस्याप्युत्पत्तेरुपकारंवत् । शक्तिशक्तिमतोर्भेदाभेदपरिकल्पनायां विरोधादिदोषानुपङ्गः ।
तथा, असौ किमेका, अनेका वा ? तत्रैकत्वे शक्तेर्युगपदनककायोत्पत्तिर्न स्यात् । अनेकत्वेपि अनेकशक्तिमात्मन्यर्थोनेकशक्तिभिर्विभृयादित्यनवस्थाप्रसङ्ग इति । __ अत्र प्रतिविधीयते । किं ग्राहकप्रमाणाभावाच्छेक्तेरभावः, अतीन्द्रियत्वाद्वा ? तत्राद्यः पक्षोऽयुक्तः, कार्योत्पत्त्यन्यथानुपपत्तिजनितानुमानस्यैव तदाहकत्वात् । ननु सामग्र्यधीनोत्पत्तिकत्वात्का- . र्याणां कथं तद्न्यथानुपपत्तिर्यतोऽनुमानात्तत्सिद्धिः स्यात् ; इत्यप्यसमीचीनम् । यतो नामाभिः सामग्र्याः कार्यकारित्वं प्रतिपिध्यते,१५ किन्तु प्रतिनियतायास्तस्याः प्रतिनियतकार्यकारित्वम् अतीन्द्रियशक्तिसद्भावमन्तरेणासम्भाव्यमित्यसावप्यभ्युपगन्तव्या । कथमन्यथा प्रतिवन्धकमणिमन्त्रादिसन्निधानेप्यग्निः स्फोटादिकार्य न कुर्यात् सामग्र्यास्तत्रापि सद्भावात् ? तेन ह्यग्नेः स्वरूपं प्रतिहन्यते, सहकारिणो वा? न तावदाद्यः पक्षः क्षेमङ्करः, २० अग्निस्वरूपस्य तद्वस्थतयाध्यक्षेणैवाध्यवसायात् । नापि द्वितीयः, सहकारिस्वरूपस्याप्यङ्गुल्याग्निसंयोगलक्षणस्याविकलतयोपलक्षणात् । अतः शक्तरेवाने प्रतिवन्धोभ्युपगन्तव्यः ।
१ शक्तिमतोऽयमुपकार इति सम्बन्धव्यपदेशार्थम् । २ उपकारस्य । ३ शक्तिमान्। ४ वह्निः। ५ उपकारवत् । ६ द्वितीयपक्षे । ७ निष्फला। ८ स्फोटादेः । ९ शक्तिरहितेन शक्तिमताऽग्निना उपकारस्योत्पत्तिर्यथा। १० अन्धकारनाश, अर्थप्रकाश, वर्तिकादाह, तैलशोषादि । ११ अर्थोऽनेकशक्तीरेकशक्त्या विभत्ति चेत्तदानेकशक्तीनामेकत्वप्रसङ्गः-एकशक्त्या याप्यमानत्वात्तदन्यतमशक्तिवत् । १२ अतीन्द्रियायाः। १३ वहिलक्षणोथों दहनशक्तियुक्तस्ततः स्फोटादिकार्योत्पत्त्यन्यथानुपपत्तरिति । १४ समवाय्यसमवायिनिमित्तकारणानां परस्परसम्बन्धलक्षणा सामग्री। १५ जैनैः। १६ अतीन्द्रियशक्त्यभावेपि सामग्र्याः कार्यकारित्वे । १७ सामय्या: प्रतिबन्धकसन्निधाने सद्भावो नास्तीत्युक्ते आह । १८ प्रतिबन्धकेन । १९ प्रतिबन्धकमणिमत्रादिना । २० परेण भवता ।
१७१