________________
१९८
अमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० ननु चानेन नावे सहकारिणो वा स्वरूपं प्रतिहन्यते, किन्त स्वभाव एव निवर्त्यते, अतः स्फोटादिकार्यस्यानुत्पत्तिः प्रतिब. न्धकमणिसत्राधावस्यापि तदुत्पत्तौ सहकारित्वात् तैदभावे तदनुत्पत्ते, इत्यप्यसमीक्षिताभिधानम्, उत्तम्भकमणिसन्निधाने ५कार्यस्यानुत्पत्तिप्रसङ्गात् । न खलु तदा प्रतिवन्धकमण्याद्यमावोस्ति प्रत्यक्षविरोधात् । ननु यथाग्निःप्रतिवन्धकमण्याद्यभावसहकारी स्फोटादिकार्य करोति, एवं प्रतिवन्धकमण्यादिः उत्तम्भकमण्याद्यभावसहकारी तत्प्रतिबन्धं करोति, अतो न तत्सन्नि
धाने कार्यस्यानुत्पत्तिरिति । अस्तु नामैतत् । तथापि-प्रतिवन्ध१० कोत्तम्भकमणिमन्त्रयोरभावेऽग्निःखकार्य करोति, न वा ? न ताव
दुत्तरः पक्षः प्रत्यक्षविरोधात्। प्रथमपक्षे तु कस्याभावः अग्नेः सहकारी-तयोरन्यतरस्य, उभयस्य वा? न तावदुभयस्य; अन्यतराभावे कार्यानुत्पत्तिप्रसङ्गात् । अन्यतरस्य चर्तिकं प्रतिवन्धकस्य,
उत्तम्भकस्य वा ? प्रतिवन्धकस्य चेत् । स एवोत्तम्भकमण्यादिस१५निधाने कार्यानुत्पादप्रसङ्गः तदा तस्याभावाप्रसिद्धः । उत्तम्भ
कस्य चेत् । अत्राप्ययमेव दोषः । न चाभावस्य कार्यकारित्वं घटते भावरूपतानुषङ्गात्, अर्थक्रियाकारित्वलक्षणत्वात्परमार्थसतो लक्षणान्तराभावात् ।
कश्चास्याभावः कार्योत्पत्ती सहकारी स्यात्-किमितरेतराभावः, २० प्रागभावो वा स्यात्,प्रध्वंसो वा,अभावमात्रं वा? न तावदितरेत
राभावः प्रतिवन्धकमणिमन्त्रादिसन्निधानेप्यस्य सम्भवात्। नापि प्रागभावः, तत्प्रध्वंसोत्तरकालं कार्योत्पत्त्यभावप्रसङ्गात् । नापि प्रध्वंसःप्रतिबन्धकमण्यादिप्रागभावावस्थायां कार्यस्यानुत्पत्तिप्र
सङ्गात् । न च भावादर्थान्तरस्याभावस्य सद्भावोस्ति, तस्यानन्तर२५ मेव निराकरिष्यमाणत्वात् । अतो निराकृतमेतत्-'यस्यान्वयव्य
तिरेको कार्येणानुक्रियेते सोऽभावस्तत्र सहकारी सहकारिणामनियमात्' इति ।
१ प्रतिबन्धकेन । २ स्वस्थ प्रतिबन्धकस्य भावः। ३ अभावरूपकारणाभावे । ४ कार्योत्थापक । ५ प्रतिबन्धकमण्याद्यभावस्य सहकारिणोऽभावात् । ६ उत्तम्भकमणिसन्निधानकाले । ७ प्रतिबन्धकाभावे उत्तम्भकसद्भावे चोभयसद्भावे च। ८ उत्तम्भकस्याभावः सहकारी चेदित्यर्थः। ९ उत्तम्भकसद्भावे कार्यानुत्पादप्रसङ्गलक्षणः । १० अभावः कार्यकारी चेत्तहीति शेषः। ११ तदोत्तम्भकस्याभावाविशेषाभावादुत्तम्भकसद्भावे कार्य न स्याच्च । १२ सत्तासम्बन्धः प्रमाणसम्बन्धो वेत्यादि । १३ प्रतिबन्धकस्य । १४ प्रतिबन्धक उत्तम्भको नेति । १५ तुच्छाभावस्य । १६ सहकारिणी भावा अभावा एव वा भवन्तीति नियमो नास्ति ।