________________
१८६
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० "तस्माद्यत्मयते तत्स्यात्साहश्येन विशेषितम् । प्रमेयमुपनानस्थ लादृश्यं वा तदन्वितम् ॥ १॥ प्रत्यक्षेणावयुद्धपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणता ॥२॥ अंत्यक्षेपि यथा देशे मर्यमाणे च पावके । विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥३॥"
[मी० श्लो० उपमानपरि० श्लो० ३७-३९] इति । न चेदं प्रत्यक्षम् ; परोक्षविषयत्वात्सविकल्पकत्वाच्च । नाप्यनुमानम् ; हेत्वभावात् । तथा हि-गोगतम् , गवयगतं वा सादृश्य१० मत्र हेतुः स्यात् ? तत्र न गोगतम्। तस्य पक्षधर्मत्वेनाग्रहणात् ।
यदा हि सादृश्यमानं धर्मि, 'स्मर्यमाणेन गवा विशिष्टम्' इति साँध्यम् , यदा च तादृशो गौतदा ने तैद्धर्मतया ग्रहणमस्ति। अते एव न गवयगतम् । गोगतसादृश्यस्य गोर्वा हेतुत्वे प्रतिज्ञार्थंक
देशत्वप्रसङ्गश्च । न च सौदृश्यम प्रोक्प्रमेयेणे प्रतिवद्धं प्रति१५ नम्। न चान्वयप्रतिपत्तिमन्तरेण हेतोः साध्यप्रतिपादकत्वमुपल
ब्धम् । ततो गवार्थदर्शने गवयं पश्यतः सादृश्येन विशिष्टे गवि पक्षधर्मत्वग्रहणं सैम्वन्धानुस्मरणं चान्तरेण प्रतिपत्तिरुत्पद्यमाना नानुमानेऽन्तर्भवतीति प्रमाणान्तरमुपमानम् । उक्तं च
१ गवयात् । २ गोलक्षणं वस्तु। ३ सर्यमाणगवान्वितम् । ४ उपमानं गृहीत. ग्राहित्वादप्रमाणं स्यादित्युक्ते आह । ५ गवयगते । ६ सादृश्यविशिष्टस्य । ७ सादृश्यविशिष्टो गौस्तद्विशिष्टं वा सादृश्यमितिविशिष्टविषयः। ८ सादृश्यविशिष्टस्य गोस्तद्विशिष्टस्य वा सादृश्यस्य । ९ सरणप्रत्यक्षाभ्याम् । १० अस्मिन्नर्थे दृष्टान्तमाह । ११ पर्वतादौ। १२ देशादिनियतत्वेन। १३ उपमानम्। १४ उपमानस्यानुमानत्वे साध्ये । १५ कः पक्षस्तद्धर्मत्वेनाग्रहणं वा कथं सादृश्यस्येत्येतदाह । १६ सामान्यम् । १७ गोगतसदृशत्वादिति हेतुः। १८ गवयसदृशो गौरिति वा पक्षः । १९ गवयगतसदृशत्वादिति हेतुः। २० गोगतसादृश्यस्य । २१ पक्ष। २२ हेतूपन्यासात्पूर्व सादृश्यस्याप्रसिद्धत्वात् । २३ पक्षधर्मत्वेनाग्रहणादेव । २४ हेतुः । २५ सादृश्यम् । २६ यद्यपि पक्षधर्मत्वेनाग्रहणं गोगतसादृश्यस्य तथापि हेतुत्वेनोपन्यासः क्रियते इत्युक्ते आह । २७ गौर्गवयेन सदृशः गोगतसादृश्यात् । गौर्गवयेन सदृशः गौर्यतः । २८ उक्तयुक्त्या पक्षधर्मत्वं नास्ति चेन्मा भूदन्वयो भविष्यतीत्युक्त आह । २९ हेतुः। ३० उपमानस्यानुमानत्वे साध्ये । ३१ हेतूपन्यासात्पूर्वम् । ३२ सादृश्यविशिष्टो गौस्तद्विशिष्टं वा सादृश्यमिति विशिष्टविषयेण। ३३ अविनाभूतम् । ३४ तथा प्रतीतेरभावात्। ३५ सपक्षे सत्त्व । ३६ सादृश्यस्य पक्षधर्मत्वेनाग्रहणमन्वयप्रतिपत्त्यभावो वा यतः। ३७ बसः। ३८ सति । ३९ अन्वय ।