________________
सू० २।२]
उपमानविचारः न तावद्यत्र देशेऽसौ न तत्काले च गम्यते । भवेन्नित्यविभुत्वाञ्चेत्सर्वार्थष्वपि तत्समम् ॥ ३॥ तेने सर्वत्र दृष्टत्वाद्ध्यतिरेकस्य चागतेः। सर्वशब्देरशेषार्थप्रतिपत्तिः प्रसज्यते॥ ४॥"
मो० श्लो० शब्दपरि० श्लो० ८५-८८] ५ अन्त्रयामध्ये चा व्यतिरेकस्याप्यभावः
"अन्वयेन विना तस्माद्ध्यतिरेकः कथं भवेत् ।" ! इत्यभिधानात् । तंतः शाब्दं प्रमाणान्तरमेव ।
उपमानं च । अस्य हि लक्षणम्"दृश्यमानाद्यदन्यत्र विज्ञानमुपजायते । सादृश्योपोधितस्तज्जैरुपमानमिति स्मृतम् ॥१॥"[ ] येन हि प्रतिपत्रा गौरुपलब्धो न गवयो, न चातिदेशवाक्यं गौरिव गवयः' इति श्रुतं तस्यारण्ये पर्यटतो गवयदर्शने प्रथमे उपजाते परोक्षे गवि सौदृश्यज्ञानं यदुत्पद्यते 'अनेन सदृशो गौः' इति, तस्य विषयः सादृश्यविशिष्टः परोक्षो गौस्तद्विशिष्टं वा१५ सादृश्यम् , तच्च वस्तुभूतमेव । यदाह
"सादृश्यस्य च वस्तुत्वं न शक्यमपवाधितुम् । भूयोवयवसामान्ययोगो जात्यन्तरस्य तत् ॥"
- [मी० श्लो० उपमानपरि० श्लो० १८] इति । अस्य चानधिगतार्थाधिगन्तृतया प्रामाण्यम् । गवयविषयेण२० हि प्रत्यक्षेण गवयो विषयीकृतो, न त्वसन्निहितोपि सादृश्यविशिष्टो गौस्तद्विशिष्टं वा सादृश्यम् । यच्च पूर्व 'गौः' इति प्रत्यक्षमभूत्तस्यापि गवयोत्यन्तमप्रत्यक्ष एव । इति कथं गवि तेदपेक्षं तत्सादृश्यज्ञानम् ? उक्तं च
१ तत्र प्रदेशेऽर्थोऽस्तीति निश्चयो नास्तीत्यर्थः। २ अर्थः । ३ अन्वेतृत्वम् । ४ कारणेन। ५ अर्थेषु । ६ शब्दस्य । ७ अप्रतिपत्तः। ८ अन्वयाविनाभावित्वं व्यतिरेकस्य यतः। ९ शब्दार्थयोरन्वयव्यतिरेको न स्त्रो यतः। १० अनुमानात् । ११ भाट्टो ब्रवीति । १२ गवयात्। १३ गवि । १४ उपाधिविशेषणम् । १५ कारिकां भावयति । १६ ग्रामादौ। १७ अन्यत्र प्रसिद्धस्यान्यत्रारोपणमतिदेशः। १८ गोगबययोः। १९ तदुपमानम् । २० गवयस्य । २१ मर्यमाणो। २२ मर्यमाणगोविशिष्टम् । २३ यस्मात्कारणात् । २४ निराकर्तुम् । २५ भूयसां बहूनामवयवानां समानता सामान्यं तेन योगः। २६ एकस्या गवयजातेरन्या गोजातिर्जात्यन्तरम् । एकस्या गोजातेरन्या गवयजातिर्जात्यन्तरम् , तस्य । २७ उपमानस्य । २८ गवयस्व । २९ गोप्रत्यक्षापेक्षम् । ३० ता । ३१ प्रत्यक्षात् ।