SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ सू० २।२] अर्थापत्तिविचारः "न चैतस्यानुमानत्वं पक्षधर्माद्यसम्भवात् । प्राक्प्रमेयस्य सादृश्यं धर्मित्वेन न गृह्यते ॥१॥ गवये गृह्यमाणं च न गवार्थालुमाएकम् । प्रतिज्ञार्थंकदेशत्वाद्धोगतस्य दलिङ्गता ॥२॥ गवयश्चाप्यसस्वस्वान गोर्लिङ्गत्वमृच्छति। सायं न च लवण पूर्व दृष्टं तदन्वयि ।। ३!! करिसन्नपि दृष्टथ द्वितीयं पश्यतो बने । सादृश्येन सहैवामिस्तदैवोत्पद्यते मतिः॥४॥ [ मी० श्लो० उपमानपरि० श्लो० ४३-४६] इति । तथार्थापतिरपि प्रमाणान्तरम् । तल्लक्षणं हि-"अर्थापत्तिरपि १० दृष्टःQतो वार्थोन्यथा नोपपद्यते इत्यदृष्टार्थकल्पना"।[शावरभा० २११५] कुमारिलोप्येतदेव भाष्यकारवचो व्याचष्टे । "प्रमाणषट्कविज्ञातो कुत्रार्थोऽनन्यथा भवन् । अदृष्टं कल्पयेदेन्यं सार्थापत्तिरुदाहृता॥" [मी० श्लो० अर्था० परि० श्लो० १] १५ |त्यक्षादिभिः पद्भिः प्रमाणैः प्रसिद्धो योर्थः स येन विना नोपपद्यते तस्यार्थस्य कल्पनमर्थापत्तिः । तत्र प्रत्यक्षपूर्विकार्थापत्तिर्यथाग्नेः प्रत्यक्षेण प्रतिपन्नादौहाद्दहनशक्तियोगोऽर्थापत्या प्रकल्प्यते। न हि शक्तिःप्रत्यक्षेण परिच्छेद्या; अतीन्द्रियत्वात् । नौप्यनुमानेन; अस्य प्रत्यक्षावगतप्रतिबन्धलिङ्गप्रभवत्वेनाभ्युपगमात्, अर्थाप-२० त्तिगोचरस्य चार्थस्य कदाचिदप्यध्यक्षागोचरत्वात् । अनुमानपूर्विका त्वर्थापत्तिर्यथा सूर्ये गमनाचच्छक्तियोगिता । अत्र हि १ आदिशब्देन तपक्षे सत्त्वम्। २ अनुमानकालात्पूर्वम् । ३ हेतुः। ४ पक्षधर्मत्वेन सादृश्यम् । ५ तर्हि गवयो हेतुभविष्यतीत्युक्त आह । ६ गवार्थेन । ७ पक्षधसत्वं नास्ति चेन्मा भूदन्वयो भविष्यतीत्युक्त आह। ८ पुंसा । ९ हेतूपन्यासात्पूर्वम् । १० प्रमेयेण । ११ उतार्थोपसंहारमाह । १२ गोलक्षणे । १३ गवयम् । १४ पक्षधर्मत्वग्रहणं विना साध्यसाधनसम्बन्धस्सरणं च विना कोर्थों गवयदर्शनकाल एव । १५ शान्दोपमाने यथा प्रमाणान्तरे भवतः । १६ सामर्थ्यात्प्राप्ता । १७ उच्यते । १८ पुनः। १९ प्रत्यक्षादिप्रमाणमात्रगम्यः । २० आगमे । २१ अदृष्टार्थ विना। २२ उपरि वृष्टिलक्षण। २३ आपादनम् । २४ बुद्धौ । २५ नदीपूरादिः। २६ अदृष्टार्थे सत्येव भवन्नित्यर्थः। २७ उपरि वृष्टिलक्षणम् । २८ पूरादन्यमू। २९ कारिकां भावयति । ३० वृष्टेः। ३१ अर्थापत्तिषु मध्ये । ३२ स्फोटात् । ३३ अग्निदहनशक्तियुक्तः दाहान्यथानुपपत्तरिति । ३४ आत्मादिबत् । ३५ भा । ३६ शक्तिलक्षणस्य ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy