SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ १८२ अमेयकमलमार्तण्डे २. प्रत्यक्षपरि० विन्ध्यस्य तद्गतद्वित्वप्रतिपत्तिरस्ति । परस्पराश्रयानुषङ्गश्च-सिद्धे हि प्रमाणद्वित्वेऽतःप्रमेयद्वित्वसिद्धिः, तस्याश्च प्रमाणद्वित्वासिद्धिरिति । अथान्यतः प्रमाणद्वित्वस्य सिद्धिः, व्यर्थ स्तर्हि प्रमेयद्वित्वोपन्यालः तदप्यन्यदेकं वा स्यात्, अनेकं वा ? एकं चेद्विपयसङ्करः। ५प्रत्यक्षं हि स्खलक्षणाकारमनुमानं तु सामान्याकारम् , तद्वयस्यैकज्ञानवेद्यत्वे सुप्रसिद्धो विषयसङ्करः । अथानेकज्ञानवेद्यमः तंदप्यपरेणानेकज्ञानेन वेद्यं तदप्यपरेणेत्यनवस्था । नेनु स्खलक्षणाकारता प्रत्यक्षेणात्मभूतैव वेद्यते सामान्याकारता त्वनुमानेन, तयोश्च स्वसंवेदनप्रत्यक्षसिद्धत्वात् प्रत्यक्षसिद्धमेव १० प्रमाणद्वित्वं प्रमेयद्वित्वं च, केवलम् यस्तथा प्रतिपद्यमानोपिन व्यवहरति स प्रसिद्धेन प्रमेयद्वैविध्येन प्रमाणद्वैविध्यव्यवहारे प्रैवर्त्यते तदप्यसारम् ; ज्ञानादर्थान्तरेस्यानर्थान्तरस्य वा केवलस्य सामान्यस्य विशेषस्य वा क्वचिज्ज्ञाने प्रतिभासाभावात् , उभया. त्मन एवान्तर्वहिर्वा वस्तुनोऽध्यक्षादिप्रत्यये प्रतिमालमानत्वात् । १५#योगः-असति बाधके यद्यथा प्रतिभासते तत्तथैवाभ्युपगन्तव्यम् यथा नीलं नीलतया, प्रतिभासते चाध्यक्षादि प्रमाण सामान्यविशेषात्मार्थविषयतयेति । ननु मा भूत्प्रमेयभेदः, तथाप्यागमादीनां नानुमानादर्थान्तरत्वम् । शब्दादिक हि परोक्षार्थ सम्बद्धम् , असम्बद्धं वा गैम२० येत् ? न तावदसम्वद्धम् ; गवादेरप्यश्वादिप्रतिभासप्रसङ्गात् । सम्बद्धं चेत्, तल्लिङ्गमेव, तजनितं च ज्ञानमनुमानमेव । इत्यप्यसाम्प्रतम् ; प्रत्यक्षस्याप्येवमनुमानत्वप्रसङ्गात्-तदपि हि स्वविषये १ नरस्य । २ सह्यविन्ध्यपर्वतगत। ३ इतरेतराश्रयपरिहारार्थ परः प्राह । ४ शानात् । ५ किञ्च । ६ तयोः। ७ ज्ञानम् । ८ युगपद्वयोः प्रतिपत्तिर्विषयसङ्करः । ९ विषयसङ्करः कथमित्युक्ते सत्याह । १० तहीति शेषः । ११ अनवस्था परिहरति परः । १२ प्रत्यक्षस्य । १३ स्वरूपगतैव। १४ अनुमानस्य । १५ वेद्यते। १६ सामान्यं विशेष वा। १७ इति । १८ नरः (शिष्यः)। १९ स्वसंवेदनप्रत्यक्षेण 'प्रमेयद्वित्वं प्रमाणद्वित्वं च। २० प्रमाणं द्विविधं प्रमेयद्वैविध्यादित्यनुमानं प्रदश्य । २१ आचार्येण । २२ अर्थगतस्य । २३ शानगतस्य । २४ सामान्य विशेषात्मनः। २५ प्रत्यक्षादि प्रमाणं धर्मि सामान्यविशेषार्थविषयत्वेनाभ्युपगन्तव्यं भवतीति साध्यो धर्मः । असति बाधके तथा प्रतिभासमानत्वादिति हेतुः । २६ सम्बद्धार्थविषयत्वात् । २७ आदिशब्देन सादृश्यार्थापत्युत्थापकार्थादि । २८ कर्त। २९ परोक्षार्थे । ३० परोक्षार्थम् । ३१ गवादिशब्दात् । ३२ असम्बद्धत्वाविशेषात् । ३३ आगमादीनामनुमानत्वप्रकारेण ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy