SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ सू० २।२ आगमविचारः १८३ सम्बद्धं सत्तस्य गमकम् नान्यथा, सर्वस्य प्रमातुः सर्वार्थप्रत्यक्षत्वप्रसङ्गात् । अथ विषयसम्बद्धत्वाविशेषेपि प्रत्यक्षानुमानयोः सामग्रीभेदात्प्रमाणान्तरत्वम् शाब्दादीनामप्येवं प्रमाणान्तरत्वं किन्न स्यात् ? तथाहि-शॉब्दं तावच्छब्दसामग्रीतः प्रभवति "शब्दादुदेति यज्ज्ञानभप्रत्यक्षेषि वस्तुनि। शाब्दं तदिति मन्यन्ते प्रमाणान्तरवादिनः । इत्यभिधानात् । न चास्य प्रत्यक्षता; सविकल्पकास्पष्टस्वभावत्वात् । नाप्यनुमानता; निरूपलिङ्गामभवत्वादनुमानगोचरार्थविषयत्वाच्च । तदुक्तम् "तस्मादनमानत्वं शाब्दे प्रत्यक्षवद्भवेत् । त्रैरूप्यरहितत्वेन तादग्विषयवर्जनात् ॥ १॥" [मी० श्लो० शब्दपरि० श्लो० १८] यादृशो हि धूमादिलिङ्गजस्यानुमानस्य विषयो धर्मविशिष्टो धर्मी तादृशा विषयेण रहितं शाब्दं सुप्रसिद्धं त्रैरूप्यरहितं च । तथा हि-न शब्दस्य पक्षधर्मत्वम् ; धर्मिणोऽयोगात् । न चार्थस्य १५ धार्मत्वम् । तेन तस्य सम्बन्धीसिद्धेः । न चाप्रतीतेथें तद्धर्मतयाँ शब्दस्य प्रतीतिः सम्भविनी । प्रतीते चार्थे न तद्धर्मतया प्रतिपत्तिः शब्दस्योपयोगिनी, तामन्तरेणाप्यर्थस्य प्रागेव प्रतीतेः । अथ शब्दो धर्मी, अर्थवानिति साध्यो धर्मः, शब्द एव च हेतुः न प्रतिज्ञार्थंकदेशत्वप्राप्तेः। अथ शब्दत्वं हेतुरिति न प्रति-२० ज्ञार्थंकदेर्शत्वम्, नैशब्दत्वस्यागमकत्वात्, गोशब्दत्वस्य च निषेत्स्यमानत्वेनासिद्धत्वात् । उक्तं च "सामान्यविषयत्वं हि पैदस्य स्थायिष्यते । १ अन्यथा चेत् । २ शब्दादीनि प्रमाणान्तराणि-सामग्रीभेदात् प्रत्यक्षादिवत् । ३ सामग्रीभेदप्रकारेण । ४ मेरुरस्तीति ज्ञानम् । आगमज्ञानमित्यर्थः (हेत्वन्तरमिदम्)। ५ जैनादयः। ६ पक्षधर्मत्वादि । ७ शब्दादुत्पन्नत्वात्। ८ ईप् । ९ अनुमेय । १० च। ११ अग्निमत्त्व। १२ पर्वतः । १३ मा । १४ गोलक्षणस्य । १५ अविनामाव । १६ अर्थधर्मत्वेन । १७ फलवती। १८ इति चेन्न । १९ पक्षवचनं प्रतिज्ञा तस्या अधेः पक्षस्तस्यैकदेशो धर्मी धर्मश्च । २० गोशब्दो जगति नित्यो व्यापकत्वेनैक एवेति गोशब्दत्वसामान्याभावः हेतोः। २१ इति चेन्नेत्यर्थः । २२ गोशब्दवदश्वशब्देपि शब्दत्वस्य भावादगमकत्त्वम् । २३ तस्मिन्निषेधोपि गोशन्द. स्यातीतादेरेकत्वात् , नैकव्यक्तौ सामान्यमिति व्यापकत्वेनैकत्वाच्च गोशब्दत्वसामान्याभावः। २४ अर्धस्य । २५ अर्थस्य साध्यस्य शापकत्वम् । २६ गोत्त्व । २७ गवादेरागमस्य । २८ खग्रन्थापेक्षयाग्रे।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy