SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ १८० प्रमेयकमलमार्तण्डे २. प्रत्यक्षपरि० ऽनुपलब्धेः स्यात् ? सोय चार्वाक प्रमाणस्यागौणत्वादनमा दर्थ निश्चयो दुर्लस इत्याचक्षाणः कथमत एवाध्यक्षादेः प्रामाण्यादिक प्रलाधयेत् ? प्रसाधयन्वा कथमतीन्द्रियेतरार्थविष. यमनुमानं न प्रमाणयेत् ? उक्तं च५ "प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥" [ ] इति । तन्नानुमानस्याप्रामाण्यम् । अस्तु नाम प्रत्यक्षानुमानभेदात्प्रमाणद्वैविध्यमित्यारेकापनोदार्थम् प्रत्यक्षतरभेदात् ॥२॥ इत्याह । न खलु प्रत्यक्षानुमानयोर्व्याख्येयागमादिप्रमाणभेदानामन्तर्भावः सम्भवति यतः सौगतोपकल्पितः प्रमाणसंख्यानियमो व्यवतिष्ठेत। प्रमेयद्वैविध्यात् प्रमाणस्य द्वैविध्यमेवेत्यप्यसम्भाव्यम् , तद्वैः १५ विध्यासिद्धेः, एक एव हि सामान्यविशेषात्मार्थःप्रमेयःप्रमाणस्य इत्यग्रे वक्ष्यते । किञ्चानुमानस्य सामान्यमात्रगोचरत्वे ततो विशेषेष्वप्रवृत्तिप्रसङ्गः । न खल्वन्यविषयं ज्ञानमन्यत्र प्रवर्तकम् अतिप्रसङ्गात् । अथ लिङ्गानुमितात्सामांन्याद्विशेषप्रतिपत्तेस्तत्र प्रवृत्तिः, नन्वेवं लिङ्गादेव तत्प्रतिपत्तिरस्तु किं पैरम्परया? २० ननु विशेषेषु लिङ्गस्य प्रतिबन्धप्रतिपत्तेरभावात्कथमतस्तेषां प्रतिपत्तिः? तदेतत्सामान्येपि समानम् । अथाप्रतिपन्नप्रतिवन्धमपि सामान्यं तेषां गमकम् ; लिङ्गमप्येवंविधं तद्गमकं किन्न स्यात् ? १ प्रत्यक्षं प्रमाणमगौणत्वात् , अनुमानमप्रमाणं गौणत्वादित्याचक्षाणः । २ आदिपदेनानुमानस्याप्रामाण्यम् । ३ इन्द्रियाण्यतिक्रान्ताः स्वर्गादयः । ते च इतरे च प्रत्यक्षग्राह्या अन्यादयः । अतीन्द्रियेतरे ते च ते अर्थाश्च ते विषया यस्यानुमानस्य तत्। ४ अप्रमाण । ५ त्व। ६ का । ७ परिशानात् । ८ परोक्ष। ९ स्वर्गादेः। १० आइ सौगतः। ११ परोक्ष । १२ अपि तु न कुतोपि स्थितिं कुर्यात् । १३ चतुर्थाध्याये । १४ (ततोऽनुमानादित्यर्थः) अग्निपरमाणुलक्षणस्वलक्षणेषु। १५ घटविषयं शानं पटे प्रवर्तकं स्यात् । १६ धूम। १७ अग्निमत्त्वात्। १८ विशेषेषु पुरुषत्वस्य । १९ यथा लिङ्गात्सामान्यस्य प्रतिपत्तिरेवं तेषां विशेषाणाम् । २० प्रयोजनम् । २१ लिङ्गा सामान्यप्रतिपत्तिः सामान्याविशेषप्रतिपत्तिरिति । २२ विशेषेषु सामान्यस्य प्रतिबन्धप्रतिपत्तेरभावात्कथं ततस्तेषां प्रतिपत्तिरिति । २३ अप्रतिपन्न प्रतिबन्धत्वाविशेषात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy