SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ १७६ प्रमेयकमलमार्तण्डै [प्रथमपरि० कारणप्रभवत्वाप्रामाण्ययोरविनाभावस्य मिथ्याज्ञाने सुप्रसिद्धि (द्ध)त्वादिति ॥ सिद्ध सर्वजनप्रबोधजननं सद्योऽकलकाँश्रयम्, विद्यानन्दसमन्तभद्रगुणतो नित्यं मनोनन्दनम् । निर्दोष परमागमार्थविषयं प्रोक्तं प्रेमालक्षणम् । युक्त्या चेतसि चिन्तयन्तु सुधियःश्रीवर्द्धमानं जिनम्॥१॥ परिच्छेदावसाने आशिषमाह । चिन्तयन्तु । कम् ? श्रीवर्द्धमान तीर्थकरपरमदेवम् । भूयः कथम्भूतम् ? जिनम् । के ? सुधियः। क? चेतसि । कया? युक्त्या ज्ञानप्रधानतया । भूयोपि कथम्भू१० तम् ? सिद्धं जीवन्मुक्तम् । भूयोपि कीदृशम् ? सर्वजनप्रबोधजननम् सर्वे च ते जनाश्च तेषां प्रबोधस्तं जनयतीति सर्वजनप्रबोधजननस्तम् । कथम् ? सद्यः झटिति । भूयोपि कीदृशम् ? अकलङ्काश्रयम्-कलङ्कानां द्रव्यकर्मणामभावः अकलङ्कस्तस्याश्रयस्तम् । भूयोपि कथम्भूतम् ? मनोनन्दनम् । कथम् ? नित्यं सर्वदा। १५कुतः? विद्यानन्दसमन्तभद्रगुणतः-विद्या केवलज्ञानमानन्दःसुखं समन्ततो भद्राणि कल्याणानि समन्तभद्राणि विद्या चानन्दश्च समन्तभद्राणि च तान्येव गुणास्तेभ्यः ततः। भूयोपि कीदृशम् ? निर्दोषं रागादिभावकर्मरहितम् । भूयोपि कथम्भूतम् ? परमाग मार्थविषयम्-परमागमार्थो विषयो यस्य स तथोक्तस्तम् । भूयोपि २० कीदृशम् ? प्रोक्तं प्रकृष्टमुक्तं वचनं यस्यासौ प्रोक्तस्तम् । भूयोपि कथम्भूतम् ? प्रमालक्षणम् ॥ श्रीः॥ इति श्रीप्रभाचन्द्रविरचिते प्रमेयकमलमार्तण्डे परीक्षामु___ खालङ्कारे प्रथमः परिच्छेदः समाप्तः ॥ श्रीः॥ १न सम्यग्शाने। २ कृतकृत्यम् । ३ झटिति । ४ उत्पन्नानन्तरम् । ५ अस्मिपदे सिद्धप्रमाणलक्षणवर्द्धमानस्वामिसम्बन्धित्वेनार्थत्रयं बोद्धव्यम्। ६ द्रव्यभावकर्मणामभावस्तस्याश्रयम् । ७ प्रमाणलक्षणस्य सम्यग्ज्ञानरूपत्वात् । ८ सर्वदा । ९ रागादिभावकर्मरहितम्। १० बसः (बहुव्रीहिसमाससंज्ञेयमुपनिबद्धा जैनेन्द्रव्याकरणे)। ११ प्रमाणलक्षणस्य सम्यग्ज्ञानरूपत्वात् । १२ नाज्ञानप्रधानतया ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy