SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ । श्री। २ अथ प्रत्यक्षोद्देशः अथ प्रमाणसामान्यलक्षणं व्युत्पाद्येदानीं तद्विशेषलक्षणं व्युत्पादयितुमुपगते । प्रमाणलक्षणविशेषव्युत्पादनस्य च प्रतिनियतप्रमाणंव्यक्तिनिष्ठत्वात्तदभिप्रायवांस्तव्यक्तिसंख्याप्रतिपादनपूर्वकं तल्लक्षणविशेषमाह तद्द्वधेति ॥१॥ तत्वापूर्वेत्यादिलक्षणलक्षितं प्रमाण द्वेधा द्विप्रकारम् , सकलप्रमाणभेदप्रभेदानामत्रान्तर्भावविभावनात् । 'पैरपरिकल्पितकद्वित्र्यादिप्रमाणसंख्यानियमे तद्घटनात्' इत्याचार्यः खयमेवाग्रे प्रतिपादयिष्यति । ये हि प्रत्यक्षमेकमेव प्रमाणमित्याचक्षते न तेषामनुमानादिप्रमाणान्तरस्यात्रान्तर्भावः सम्भवति तद्विलक्षण-१० त्वाद्विभिन्नसामग्रीप्रभवत्वाच । ननु चास्याऽप्रामाण्यानान्तर्भावविभावनया किञ्चित्प्रयोजनम् । प्रत्यक्षमेकमेव हि प्रमाणम् , अगौणत्वात्प्रमाणस्य । अर्थनिश्चायक च ज्ञानं प्रमाणम्, न चानुमानादर्थनिश्चयो घटते-सामान्ये सिद्धसाधनाद्विशेषेऽनुगमाभावात् । तदुक्तम्विशेषेऽनुगमाभावः सामान्य सिद्धसाधनम् [ ] इति । किञ्च, व्याप्तिग्रहणे पक्षधर्मतावगमे च सत्यनुमानं प्रवर्त्तते । न च व्यातिग्रहणमध्यक्षतः; अस्य सन्निहितमात्रार्थनाहित्वेनाखिलपदार्थाक्षेपेणें व्याप्तिग्रहणेऽसामर्थ्यात्।नाप्यनुमानतः अस्य व्याप्ति १ अनन्तरम् । २ कथयित्वा। ३ विशदीकत्तुं । ४ प्रारभते । ५ परिच्छेदावतारः। ६ मेद । ७ आय त्रिविधमन्त्यं पञ्चविधमित्यादिलक्षण । ८ व्यक्तिभेदेपि लक्षणैकत्वमन्तर्भावः। ९ निश्चयनात् । १० कुत एतत् । ११ तदघटनं कथमाचार्यः प्रतिपादयिष्यतीयुक्ते आह । १२ चार्वाकाः। १३ वैशद्यावैशद्य । १४ इन्द्रियलिङ्गे। १५ अनुमानादेः। १६ किञ्च । १७ साध्ये। १८ न हि अग्निमात्रे कस्यचिदि. प्रतिपत्तिरस्ति सामान्याच्च प्रवर्त्तमानः कथं नियतमभिमुखमेवावश्यं प्रवत्त । १९ यो यो धूमवान् स स ताणेनाग्निमानित्यन्वयाभावः। २० नानुमानं प्रमाण स्यान्निश्चयाभावतस्ततः। २१ हेतोः। २२ उत्पद्यते। २३ अग्याधारधूमाधारमहानसादि । २४ स्वीकरणेन । २५ प्रत्यक्षस्य । २६ सर्वत्र धूमोऽग्निना व्याप्तः तदन्वयव्यतिरेकानुविधानात् । २७ व्याप्तिग्रहणम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy