SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ १७४ प्रमेयकमलमार्तण्डे प्रथमपरि० निवर्तते हि मिथ्यात्वं दोपशानादयत्नतः ॥ [मी० श्लो० सू० २ श्लो० ५२] प्रागेव विहितोत्तरम् । न च दोषाज्ञानात्तर्भावः, सत्स्वपि तेषु तदज्ञानसम्भवात् । सम्यग्ज्ञानोत्पादनशक्तिवैपरीत्येन मिथ्याप्रत्य५योत्पादनयोग्यं हि रूपं तिमिरादिनिमित्तमिन्द्रियदोषः, स चातीन्द्रियत्वात्सन्नपि नोपलक्ष्यते । न च दोषाः ज्ञानेन व्याप्ता येन तन्निवृत्त्या निवत्तैरन् । ततोऽयुक्तमिदम् "तस्मात्स्वतः प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम् । वधिकरणदुष्टत्वज्ञानाभ्यां तदपोद्यते ॥ परोधीनेपि वै तस्मिन्नानवस्था प्रसज्यते। प्रमाणाधीनमेतद्धि स्वतस्तच्च प्रतिष्ठितम् ॥ प्रमाणं हि प्रमाणेन यथा नान्येन साध्यते । न सिध्यत्यप्रमाणत्वमप्रमाणात्तथैव हि ॥ वाँधकप्रत्ययस्तावदर्थान्यत्वाऽवधारणम् । सोऽनपेक्षः प्रमाणत्वात्पूर्वज्ञानमैपोहते ॥ यत्रापि त्वपादस्य स्यादपेक्षा क्वचित्पुनः। जाताशङ्कस्य पूर्वेण साप्यन्येन निवर्त्तते ॥ १ शङ्कया यदापादितमप्रामाण्यम् । २ स्वच्छनील्यादि। ३ संवादमन्तरेण । ४ कारणदोषाभावेप्ययमेव न्याय इति। ५ किञ्च । ६ दोषाभावः। ७ किञ्च । ८ अनवस्था समर्थिता यतः। ९ अग्रे वक्ष्यमाणलक्षणम् । १० मीमांसकग्रन्थे । प्रमथशानप्रामाण्ये संवादज्ञानापेक्षाया अनवस्थाचक्रकेतरेतराश्रया यतः। ११ एवं चेत्सर्वस्य शानस्य भ्रान्तादेः प्रमाणता स्यादित्युक्ते सत्याह । १२ यथाऽप्रामाण्यं बाधककारणदोषशानापेक्षं तथा बाधकादिनाऽपरमपेक्षणीयमपरेणाप्यपरमपेक्षणीयमित्यनवस्था कुतो न स्यादित्युक्त आह । १३ भ्रान्तादेरप्रामाण्ये। १४ अप्रामाण्यं । १५ प्रमाणाधीनं स्याद्यदि अप्रामाण्यं तदाऽनवस्था न स्यादेव किं तर्हि अप्रामाण्यस्य प्रमाणमन्तरेणैव सिद्धिः स्यात्ततश्चाप्रामाण्यं स्वतः स्यादित्युक्ते आह। १६ प्रमाणमन्तरेण । १७ बाधप्रत्ययः पुनः क इत्युक्ते आह । १८ शानं। १९ परानपेक्षः । २० स्वतः। २१ मरीचिकायां जलज्ञानम् । २२ बाधते। २३ विषये । २४ यदा बाधकप्रत्ययोऽपरमपेक्षेत तदा किम् । २५ बाधकशानस्य । २६ अपवादान्तरस्य । २७ अर्थे । २८ नरस्य। २९ पूर्वेण शानेन। ३० अपरेण बाधकप्रत्ययेन पूर्व सजातीयेन संवादकेन। 1 "न च दोषा ज्ञानेन ये व्याप्ता येन तन्निवृत्त्या निवर्तेरन्" सन्मति० टी० पृ०१८ 2 तस्मात्स्वतः इत्यादयो नवश्लोकाः तत्त्वसंग्रहे किञ्चित् पाठभेदेन पूर्वपक्षरूपेण उपलभ्यन्ते (पृ० ७५८-६०)। सन्मति० टी० पृ० १८-१९ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy