SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सू० १११३] प्रामाण्यवादः पलब्धिरन्यकालमभावनिश्चयं च विद्धात्यतिप्रसङ्गात् । नाप्यु. त्तरकाला, प्राक् प्रवृत्तेः 'उत्तरकालं बाधकोपॅलब्धिर्न भविष्यति' इत्यसर्वविदा निश्चेतुमशक्यत्वेनासिद्धत्वात् । प्रवृत्त्युत्तरकालभाविनिश्चयमात्रनिमित्तत्वे न किञ्चित्फलम् तस्याँकिञ्चित्करत्वात्। किच, अलौ लवलम्वन्धिनी, आलसम्बन्धिनी वा? प्रथम-५ पक्षे आलिद्धाः न खलु 'सर्वे प्रमातारो बाधकं नोपलभन्ते' इत्याग्दर्शिन्दा निश्चेतुं शक्यम् । नाप्यात्मलम्वन्धिनीः तस्याः परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् । तन्नानुपलब्धिनिमित्तम् । नापि संवादोनवस्थाप्रसङ्गात् । कारणदोषाभावेण्ययमेव न्यायः। एवं त्रिचतुरज्ञान' इत्याद्यपि स्वगृहमान्यम् : कस्यचिद्विज्ञानस्य १० प्रामाण्यं पुनरप्रामाण्यं पुनः प्रमाणता' इत्यवस्थात्रयदर्शनाद्वाधके तद्वाधकादौ वावस्थात्रयमाशङ्कमानस्य परीक्षकस्य कथं नापरापेक्षा येनानवस्था न स्यात् ? 'आशङ्केत हि यो मोहात्' इत्याद्यपि विभीपिकामात्रम् , यतो - नाभिशापमात्रात्प्रेक्षावतां प्रमाणमन्तरेण वाधकोशङ्का व्यावर्त्तते । १५ न चास्या व्यावर्तकं प्रमाणं भवन्मतेऽस्तीत्युक्तम् । कारणदोषज्ञानेपि पूर्वण जाताशङ्कस्य तत्कारणदोषान्तरापेक्षायां कथमनवस्था न स्यात् ? तस्य तत्कारणदोषग्राहकानाभावमात्रतः प्रमाणत्वान्नानवस्था, यदाह "यदा स्वतः प्रमाणत्वं तदान्यन्नैव मुंग्यते। ३२२२ २० १ पूर्वेण जाताशङ्कस्य । २ बाधकस्य ! ३ सन्प्रत्यत्र घटानुपलब्धिः कालान्तरेप्यत्र घटाभावं कुर्यादित्यतिप्रसङ्गात् । ४ जलादिशाने । ५ बाधकामाव। ६ अनुपलम्भस्य । ७ प्रवृत्त्यर्थो हि निश्चयोऽवलोक्यते प्रवृत्तेश्च जातत्वान्निश्चयस्याकिञ्चित्करत्वम् । ८ अनुपलब्धिः। ९ किञ्चिज्वेन । १० अनुपलब्धेः। ११ लब्धुमशक्यैः । १२ बाधकामावनिश्चयं निमित्तम्। १३ अन्यथा। १४ पूर्वेण जाताशङ्कस्य संवादे संवादान्तरापेक्षणात् । १५ इदं जलं पुनरिदं जलं पुनरिदं जलम् । १६ विवक्षितस्य । १७ बाधकात् । १८ पञ्चमशानलक्षणसंवादप्रमाणम् । १९ चतुर्थशानस्य । २०.प्रत्यक्षादिना प्रामाण्यग्रहणाभावे प्रामाण्ये बाधकाशङ्काव्यावर्जनस्य कर्तुमशक्यत्वात् । २१ द्वितीयविकल्पः। २२ विज्ञानकारणनेत्रादिकम् । २३ काचकामलादि । २४ ज्ञानेन। २५ इन्द्रियाणामतीन्द्रियत्वादभावः। २६ संवादकज्ञानम्। २७ कुतः। - 1 "किञ्च, बाधकानुपलब्धिः सर्वसम्बन्धिनी किं तनिश्चयहेतुः उत आत्मसम्बधिनी इति पुनरपि पक्षद्वयम् ।" सन्मति० टी० पृ० १७ ॥
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy