SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ १७२ प्रमेयकमलमार्कण्डे प्रथमपरि० . संवादज्ञानं किं पूर्वज्ञानाविषयं तदविषयं वा; इत्याद्यप्यसमीक्षिदाभिधानम् ले खलु संवादहानं तदाहित्वेनास्य प्रामाण्यं व्यवस्थापयति ! किं तर्हि ? तत्कार्यविशेषत्वेनाश्यादिकमिव धूमादिकम् । सर्वप्राणभृतां प्रामाण्ये सन्देहविपर्ययासिद्धेश्च; इत्यप्ययुक्तम् ः ५प्रेक्षापूर्वकारिणो हि प्रमाणाप्रमाणचिन्तायामधिक्रियन्ते नेतरे। ते च कासाञ्चिदशा(श्चिज्ज्ञा)नव्यक्तीनां विसंवाददर्शनाजाताशङ्काः कथं ज्ञानमात्रात् 'अयमित्थमेवार्थः' इति निश्चिन्वन्ति प्रामाण्यं वास्य ? अन्यथैषां प्रेक्षावत्तैव हीयेत। प्रमाणे वाधककारणदोषज्ञानाभावात्प्रामाण्यावसायः; इत्यप्य१० भिधानमात्रम् । तदभावो हि वाधकाग्रहणे, तदभावनिश्चये वा स्यात् ? प्रथमपक्षे भ्रान्तज्ञाने तद्भावेपि तद्ग्रहणं कञ्चित्कालं दृष्टम् , एवमत्रोपि स्यात् । 'भ्रान्तज्ञाने कश्चित्कालमहेपि कालान्तरे वाधकग्रहणं, सम्यग्ज्ञाने तु कालान्तरेपि तदग्रहणम्' इत्ययं विभौगः सर्वविदां नास्मादृशाम् । वाधकाभावनिश्चयोपि १५सम्यग्ज्ञाने प्रवृत्तेः प्राक, उत्तरकालं वा? आद्यविकल्पे भ्रान्त ज्ञानेपि प्रमाणत्वप्रसङ्गः । द्वितीयविकल्पे तन्निश्चयस्याकिञ्चित्करत्वं तमन्तरेणैव प्रवृत्तेरुत्पन्नत्वात् । न च बाधकामावनिश्चये किञ्चिनिमित्तमस्ति । अनुपलब्धिरस्तीति चेकिं प्राकाला, उत्तरकाला वा? न तावत्प्राकाला; तस्याः प्रवृत्त्युत्तरकाल २० भाविबाधकामावनिश्चयनिमित्तत्वासम्भवात् । न ह्यन्यकालानु. - १ पूर्वज्ञानं विषयो यस्य। २ अर्थक्रियाज्ञानं। ३ कर्तृ । ४ अश्यादिकं कर्मतामापन्नं यथा व्यवस्थापयति धूमादिकं कर्तृ, कुतस्तत्कार्यत्वान्न तु तद्वाहकत्वादित्यर्थः । ५ कर्तृ । ६ बाधक । ७ अप्रेक्षाकारिणो नराः। ८ मरीचिकादौ । ९ किन्तु नैव । १० बाधकाभावः। ११ उभयोः। १२ सत्यजलज्ञाने। १३ उभयोः (कोट्योः)। १४.देशकालापेक्षया । १५ खानपानादिलक्षणायाः। १६ किञ्च । १७ कारणम् । १८ विवादापन्ने प्रमाणे बाधकं नास्ति अनुपलब्धेरिति । १९ नेदं जलमिति । ___1 "नहि संवादज्ञानं तबाहकत्वेन तस्य प्रामाण्यं व्यवस्थापयति, किन्तु तत्कार्यविशेषत्वेन यथा धूमोऽग्निम् इति पराभ्युपगमः।" सन्मति० टी० पृ० १६। 2 "तदभावो हि बाधकाग्रहणे, तदभावनिश्चये वा ?” तत्त्वोप० लि. पृ० ३। - सन्मति० टी० पृ० १५ । 3 "बाधकानुपलब्धिः किं प्रवृत्तेः प्राग्भाविनी बाधकामावनिश्चयस्य प्रवृत्युत्तरकालभाविनो निमित्तम्, अथ प्रवृत्त्युत्तरकालभाविनी इति विकल्पद्वयम् ?" सन्मति० टी० पृ० १७।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy