SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ सू० १११३] . प्रामाण्यवादः यात्तेनं संवादाभावात् । कुञ्चिकाविवरस्थायां हि मणिप्रभायां मणिज्ञानम् अपर(अपवर)कान्तर्देशसम्बद्धे तु मणावर्थक्रियाज्ञानमिति भिन्नदेशार्थग्राहकत्वेन भिन्नविषययोः पूर्वोत्तरज्ञानयोः कथमविसंवादस्तिमिराद्याहितविभ्रमशानवत् ? यच्चान्यदुंक्तम्-कचिकूटेवि जयतुङ्गे ज्ञानं प्रमाणं स्यात्कति-५ पथार्थक्रियादर्शनात् , तत्र कूटे कूटज्ञानं प्रमाणसेवाऽकूटज्ञानं तु न प्रमाणं तत्संवादाभावात् । सम्पूर्णचेतनालामो हि तस्यार्थक्रिया न कतिपयचेतनालाभ इति । यच्चैकविषयं भिन्नविषयं वा संवादकमित्युक्तम् । तत्रैकाधारवर्तिरूपादीनां तादात्म्यप्रतिवन्धेनान्योन्यं व्यभिचाराभावात् । १० जाग्रहशारसादिज्ञानं रूपाद्यविनाभावि रसादिविषयत्वात् । भिन्नविषयत्वेप्याँशङ्कितविषयाभावस्य पज्ञानस्य प्रामाण्यनिश्चयात्मकम् । दृश्यते हि विभिन्नदेशाकारस्यापि वीणादे रूपविशेषदर्शने शब्दविशेषे शङ्काव्यावृत्तिः किं पुनर्नाचें ? अविनाभावो हि संवाद्यसंवादकभावनिमित्तं नोन्यत् । १ पूर्वशानस्य । २ अभूत्। ३ जनित । ४ विभ्रमशानस्य यथा भिन्नदेशसम्बन्धार्थक्रियाज्ञानरूपसंवादान्न प्रामाण्यम् । ५ शुक्तिकादौ रजतादिशानं विभ्रमः । ६ परेण । ७ द्रङ्गे। ८ दूषणमुच्यते । ९ अकूटजयतुङ्गस्य । १० अर्थ। ११ पूर्वज्ञानस्य । १२ परेण । १३ मातु(लि)ङ्गादि । १४ सम्बन्धेन। १५ द्वितीयम् । १६ रूपरसज्ञानयोः। १७ जाग्रद्दशाभावि। १८ आद्यस्य जाग्रद्दशाभाविनः । १९ आद्यस्य । २० रूपादौ । २१ विमिन्नविषययोः रूपरसज्ञानयोः शङ्काव्यावृत्तिः कुत इत्युक्ते आह । २२ एकविषयत्वं भिन्नविषयत्वं वा। 1 "एकसन्तानवर्तिनो विषयद्वयस्याविनाभावादन्यालम्बनमपि ज्ञानमन्यविषयस्य ज्ञानस्य प्रामाण्यं साधयिष्यति, नहि तौ रुपस्पशौँ विनिर्भागेन वर्तेते एकसामग्र्यधीनत्वात् ।" तत्त्वसं. पं० पृ० ८०२। 2 "क्वचित्खलु समानजातीयं संवादकशानं भवति, यथा देवदत्तस्य प्रथमं घटशाने प्रवृत्ते यशदत्तस्यापि तस्मिन्नेव घटे घटशानम् । "क्कचित्तु भिन्नजातीयमपि, संवादकज्ञानं भवति । यथा प्रथमस्य प्रवर्तकजलज्ञानस्य उत्तरकालभाविनानपानावगाहनाधक्रियाशानम् ।...भवति हि एकसन्तानप्रभवम् अन्धकारकलुषितालोकप्रभवस्य कुम्भज्ञानस्य उक्तरकालभाविनिस्तिमिरालोकप्रभवं तस्मिन्नेव कुम्मे कुम्भशानम् । भिन्नविषयं तु एकसन्तानप्रभवं संवादकं यथा रथाङ्गमिथुनादेकतरदर्शनस्य अन्यतरदर्शनम् ।"न खलु निखिलं भिन्नविषयं संवेदनं संवादकमिति ब्रूमः । किंतर्हि ? यत्र पूर्वोत्तरशानगोचरयोः अविनामावस्तत्रैव भिन्नविषयत्वेऽपि शानयोः संवाद्यसंवादकभाव इति ।... अविनाभावो हि संवाद्यसंवादकभावनिमित्तं नान्यत् ।" स्या. रत्ना० पृ० २५३ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy