SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ १७० प्रमेयकमलमार्तण्डे [प्रथमपरि० यदि चात्रार्थक्रियाज्ञानमर्थमन्तरेण स्यात् किमन्यज्ज्ञानमर्थाव्यभिचारि यदलेनार्थव्यवस्था ? अपि च, 'अर्थक्रियाहेतुर्मानं प्रमाणम्' इति प्रमाणलक्षणं तत्कथं फलेप्याशयते ? यथा “अडरहेतुर्वीजम्' इति बीजलक्षणस्या५करेऽभावात् नैवं प्रश्नः 'कथमकुरे बीजरूपता निश्चीयते' इति, एवमंत्रापि । यच्चेदँमुक्तम् "श्रोत्रधीश्चाप्रमाणं स्यादितराभिरसङ्गतिः(तेः)।" [ मी० श्लो० सू० २ श्लो० ७७ ] इति; तदप्ययुक्तम्। वीणादिरूपविशेषोपलम्भतस्तच्छन्दविशेष १० शङ्काव्यावृत्तिप्रतीतेः कथमितराभिरसङ्गतिः? श्रोत्रवुद्धस्थति यानुभवरूपत्वेन स्वतः प्रामाण्यसिद्धेश्च गन्धादिबुद्धिवत् । संशयाद्यभावान्नान्येन सङ्गत्यपेक्षा। यत्रैव हि संशयादिस्तत्रैव साऽपे. क्षते नान्यत्र अंतिप्रसङ्गात्। अथोच्यते अर्थक्रियाऽविसंवादात्पूर्वस्य प्रामाण्यनिश्चये मणि१५प्रभायां मणिवुद्धेरपि प्रामाण्यनिश्चयः स्यात् ; तव्यपर्यालोचिताभिधानम् ; एवंभूतार्थक्रियाज्ञानान्मणिवुद्धेरप्रामाण्यस्यैव निश्च १ किञ्च । २ जाग्रद्दशाभाव्यर्थक्रियायाम् । ३ स्थितिः। ४ किन्तु नैव शङ्कनीयम् । ५ परेण । ६ अर्थक्रियाज्ञाने प्रमाणलक्षणाशङ्का कथं स्यात् । अर्थक्रियाज्ञानरूपे फले अर्धक्रियाहेतुतया प्रमाणता निश्चीयते कथमिति प्रश्नः स्यात् । ७ स्वग्रन्थे। ८ चक्षुरादिजनितधीभिः। ९ रूपादिशानः। १० अर्थस्य शब्दस्य क्रिया, उत्पद्यमानत्वं तस्यानुभवरूपत्वेन । ११ किञ्च । १२ स्पर्शरस । १३ अपरेण सजातीयेनार्थक्रियाशानेन । १४ संवाद । १५ ज्ञाने। १६ स्यात् । १७ अन्यथा । १८ प्रतीयमानेपि स्वकीये सुखे अन्यापेक्षा स्यात् । १९ ज्ञानस्य । २० अङ्गीक्रियमाणे। २१ ता। २२ भिन्नदेशार्थसम्बद्धा । 1 ".."तस्माच्छोत्रधीः प्रमाणं भवत्येव तदन्याभिश्चक्षुरादिमतिभिर्यथोक्तसम्बन्धसद्भावात् , तथाहि-दूराद् वीणादिशब्दश्रवणात् तदर्थिनो वेण्वादिशब्दसाधादुपजातसंशयस्य पुंसः प्रवृत्ती वीणारूपदर्शनाद्यः प्रागुपजातः संशयः किमयं वीणाध्वनिः उत वेणुगीतादिशब्द इति स व्यावर्तते । यत्र च देशे मृदङ्गादिप्रतिशब्दश्रवणात् प्रवृत्तस्य तदर्थाधिगतिनं भवति तत्र विसंवादादप्रामाण्यं प्रत्येति ।" तत्त्वसं० पं० पृ० ८०३ । 2 “यच्च शङ्ख पीतशानं मणिप्रभायां मणिज्ञानं तदप्यप्रमाणमेव, तत्र यथार्थप्रतिभासावसाययोरभावात् । प्रतिभासवशाद्धि प्रत्यक्षस्य ग्रहणाग्रहणे नत्वर्था विसंवादमात्रात् । नचात्र यथा स्वभावदेशकालावस्थितवस्तुप्रतिभासोऽस्ति नरा (वा?) देशकालः स एव भवति । देशकालयोरपि वस्तुस्वभावभेदकत्वात् ।" तत्त्वसं० पं० पृ० ७८२ । न्यायकुमु० पृ० २०२॥
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy