SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ १६८ प्रमेयकमलमार्तण्डे [प्रथमपरि० दावल्पतरबीजवपनादिना बीजाबीज निर्धारणाय प्रवर्तन्ते, पश्चादृष्टसाधात्परिशिष्टस्य वीजावीजतया निश्चितस्योपयोगाय परि. हाराय च अभ्यस्तवीजादिविषये तु निःसंशयं प्रवर्त्तन्ते । यञ्चाभ्यधायि-संवादप्रत्ययात्पूर्वस्य प्रामाण्यावगमेऽनवस्था ५तस्याप्यपरसंवादापेक्षाऽविशेषात् । तदप्यभिधानमात्रम्। तस्य संवादरूपत्वेनापरसंवादापेक्षाभावात् । प्रथमस्यापि संवादापेक्षा मा भूदित्यप्यसमीचीनम् ; तस्यासंवादरूपत्वात्, अंतः संवादक द्वारेणैवास्य प्रामाण्यं निश्चीयते। अर्थक्रियोज्ञानं तु साक्षादविसंवाद्यर्थक्रियालम्बनत्वान्न तथा १०प्रामाण्यनिश्चयभाई । तेन 'कस्यचित्तु यदीष्येत' इत्यादि प्रलाप मात्रम् । न चार्थक्रियाज्ञानस्याप्यवस्तुवृत्तिशङ्कायामन्यप्रमाणापेक्षयानवस्थावतारः, । अस्यार्थाभावेऽदृष्टत्वेन निरारेकत्वात् । यथैव हि-किं 'गुंणव्यतिरिक्तेन गुणिनाऽर्थक्रिया सम्पादिता १ परेण । २ ज्ञानस्य । ३ जैनैः । ४ संवादप्रत्ययो धर्मी अपरसंवादापेक्षो भवतीति साध्यं प्रत्ययत्वात् । ५ प्रत्ययत्वेन । ६ जलादिज्ञानस्य । ७ पूर्वज्ञानविषये उत्तरज्ञानस्य वृत्तिः संवादः। ८ असंवादरूपत्वं यतः। ९ प्रेक्षावद्भिः। १० संवाद। ११ लानपानावगाहनादि । १२ पुनः । १३ यसः (कर्मधारयसमासः)। १४ बसः। १५ अविसंवादापेक्षाप्रकारेण । १६ भवति। १७ कारणेन । १८ स्वत एवं प्रमाणता । प्रथमस्य तथाभावे प्रदेषः केन हेतुना। १९ अपिशब्दात्साधनज्ञानस्य ग्रहणम् । २० विद्यमानेपि स्नानादिके अविद्यमानलानादिलक्षणाऽवस्तुवृत्तिशङ्कायाम् । २१ निःसंशयत्वात् । २२ रूपस्पर्शादि । २३ यौगः । निर्धार्य पश्चादृष्टसाधयेणानुमानात् परिशिष्टस्य बीजाबीजतया निश्चितस्योपादानाय हानाय च यतन्ते । तदनन्तरं पुनरभ्यस्ते बीजादिगोचरे परिदृष्टसाधादिलिङ्गनिरपेक्षा एव निःशवं कीनाशा: केदारेषु बीजवपनाय प्रवर्तन्ते ।" स्या. रत्ला० पृ० २५५ । 1 "उच्यते वस्तुसंवादः प्रामाण्यमभिधीयते । वस्य चार्थक्रियाभ्यासशानादन्यन्न लक्षणम् ॥ २९५९ ॥ अर्थक्रियावभासं च ज्ञानं संवेद्यते स्फुटम् । निश्चीयते च तन्मात्रमाव्यामर्शनचेतसा ॥ २९६० ॥ अतस्तस्य स्वतः सम्यक् प्रामाण्यस्य विनिश्चयात् । नोत्तरार्थक्रियाप्राप्तिप्रत्ययः समपेक्ष्यते ॥ २९६१ ॥ शानप्रमाणभावे च तस्मिन् कार्यावभासिनि । प्रत्यये प्रथमेप्यस्माद्धेतोः प्रामाण्यनिश्चयः॥ २९६२ ॥ तत्त्वसं० पृ० ७७८ । सन्मति० ते० पृ० १४ । 2 “यथा अर्थक्रिया किमवयवव्यतिरिक्तन अवयविनाऽर्थेन निष्पादिता, उताव्यतिरिक्तेन, आहोखिदुभयरूपेण, अथानुभयरूपेण, किंवा त्रिगुणात्मकेन, परमाणुसमू
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy