________________
सू० १२१३] प्रामाण्यवादः
१६७ नाप्यनुमानतः, लिङ्गाभावात् । अथार्थप्राकट्य लिङ्गम् ; तकि यथार्थत्वविशेषणविशिष्टम् , निर्विशेषणं वा? प्रथमपक्षे तस्य यथार्थत्वविशेषणग्रहणं प्रथमप्रमाणात्, अन्यस्माद्वा? आद्यपक्षे परस्पराश्रयः दोषः। द्वितीयेऽनवस्था निर्विशेषणात्तत्प्रतिपत्तौ चातिप्रसंङ्गः । प्रत्यक्षानुमानास्यां तत्प्रामाण्यनिश्चये खतः प्रामा-५ ण्यव्याधातच!
या संवादात्पूर्वस्य प्रामाण्ये चक्रकद्दूषणम् । तदप्यसङ्गतम् ;न खलु संवादात्पूर्वस्य प्रामाण्यं निश्चित्य प्रवर्त्तते, किन्तु वह्निरूपदर्शने सत्येकदा शीतपीडितोऽन्याथ तद्देशमुपैसपन् कृपालुना वा केनचित्तद्देशं वढेरानयने तत्स्पर्शविशेषमनुभूय तद्रूपस्पर्शयोः सम्ब-१० न्धमवगम्यानभ्यासदशायां 'ममायं रुपप्रतिभासोऽभिमैतार्थक्रियासाधनः एवंविधप्रतिभासत्वात्पूर्वोत्पनैवंविधप्रतिभासवत्' इत्यनुमानोंत्साधननिर्भासिज्ञानस्य प्रामाण्यं निश्चित्य प्रवर्तते । कृषीवलादयोपि ह्यनभ्यस्तवीजादिविषये प्रथमतरं तावच्छरावा
१ प्राकट्यं प्रामाण्याविनाभावि भवति तच्च यत्र ज्ञानेस्ति तत्र प्रामाण्यमिति । २ प्रमाणप्रामाण्यमस्ति यथार्थप्राकट्यात् । ३ प्राकट्यमात्रम्। ४ लिङ्गस्य । ५ प्रथमजलशानात् । ६ प्रमाणात् । ७ प्रमाणभूतप्रथमज्ञानात्साधनस्य यथार्थत्वविशेषणग्रहणं गृहीतविशेषणविशिष्टात्साधनात्प्रथमज्ञानस्य प्रामाण्यनिश्चय इति । ८ लिङ्गात् । ९ प्रामाण्यज्ञप्तौ । १० मिथ्याज्ञानेऽपि प्रामाण्यं स्यादित्यर्थः । ११ पूर्वशानग्राहि द्वितीय प्रत्यक्षम् । १२ पूर्वशानस्य । १३ किञ्च । १४ अर्थक्रियारूपात्। १५ परोक्तम् । १६ जलादिज्ञानस्य । १७ नरः। १८ नरः। १९ पुष्पार्थ । २० गच्छन् । २१ उष्णस्पर्शम्। २२ अविनाभावम् । २३ भास्वर । २४ शीतापहरणलक्षण । २५ पिङ्गाङ्गमासुररूप । २६ शीतापनोदस्य साधनमग्निः। २७ जल ।
1"तद्धि फलं निर्विशेषणं वा स्वकारणस्य ज्ञातृव्यापारस्य प्रामाण्यमनुमापयेद् , यथार्थत्वविशिष्टं वा ?' न्यायमं० पृ० १६८ । न्यायकुमु० पृ० २०१ । सन्मति. टी० पृ० १४ । स्या० रत्ना० पृ० २५६ ।
2 "यच्च संवादशानात् साधनज्ञानप्रामाण्यनिश्चये चक्रकदूषणमभ्यधायि; तदसङ्गतम् ; यदि हि प्रथममेव संवादज्ञानात् साधनज्ञानस्य प्रामाण्यं निश्चित्य प्रवतेत तदा स्यात्तदूषणम् , यदा तु वह्निरूपदर्शने सत्येकदा शीतपीडितोऽन्यार्थ तद्देशमुपसर्प. स्तत्स्पर्शमनुभवति कृपालुना वा केनचित्तद्देशं वढेरानयने; तदाऽसौ वह्निरूपदर्शनशानयोः सम्बन्धमवगच्छति एवं स्वरूपो भावः एवंभूतप्रयोजननिवर्तकः इति ..."
सन्मति० टी० पृ० १६ । स्या० रत्ना० पृ० २५५ । 3 "कृषीवलादयोऽपि हि अनभ्यस्ते बीजादिगोचरे प्रथमम् विहितमधुरनीरावसिकसुकुमारमृदि शरावादौ कतिपयशाल्यादिवीजकणगणावपनादिना बीजाबीजे