________________
प्रमेयकमलमार्तण्डे
प्रथमपरि०
प्रामाण्यप्रसङ्गाचा निखिलवचनानां लोके गुणवत्पुरुषप्रणीतत्वेन प्रामाण्यप्रसिद्धः, अंबान्यथापि तत्परिकल्पनेने प्रतीतिविरोधाच । . अपि च अपौरुषेयत्वेप्यागमस्य न स्वतोऽथै प्रतीतिजनकत्वम
सर्वदा तत्प्रसङ्गात् । नापि पुरुषप्रयत्नाभिव्यक्तस्य; तेषां रागा. ५दिदोषदुष्टत्वेनोपगमात् तत्कृताभिव्यक्तेर्यथार्थतानुपपत्तेः । तथाच
अप्रामाण्यप्रसङ्गभयादपौरुषेयत्वाभ्युपगमो गजनानमनुकरोति। तदुक्तम्
“अंसंस्कार्यतया पुभिः सर्वथा स्यानिरर्थता। संस्कारोपगमे व्यक्तं गजनानमिदं भवेत् ॥१॥"
[प्रमाणवा० १२३२] तन्न प्रामाण्यस्योत्पत्ती परीनपेक्षा। नौपि ज्ञप्तौ । साहि निर्निमित्ता, सन्नि(सनि)मित्ता वा ? न ताव. निर्निमित्त प्रतिनियतदेशकालवभावाभावप्रसङ्गात् । सनिमि
तत्वे किं खनिमित्ता, अन्यनिमित्ता वा? न तावत्स्वनिमित्ता, १५वसंविदितत्वानभ्युपगमात् । अन्यनिमित्तत्वे तत्किं प्रत्यक्षम्,
उतानुमानम् ? न तावत्प्रत्यक्षम्। तस्य तंत्र व्यापाराभावात् । तद्धीन्द्रियसंयुक्त विषये तयापारादुर्दयमासादयत्प्रत्यक्षव्यपदेशं लभते । न च प्रामाण्येनेन्द्रियाणां सैंम्प्रयोगो येन तद्व्यापारजनितप्रत्यक्षेण तत्प्रतीयेत । नापि मनोव्यापारजेप्रत्यक्षेण; एवं २० विधानुभवाभावात्।
१ वेदे । २ अपौरुषेयत्वेन। ३ अन्यथा। ४ ज्ञातस्य । ५ अपौरुपेयत्वस्य । ६ अपौरुषेयस्य वेदस्य । ७ वेदस्य पुरुषकृताभिव्यक्तितोऽथे प्रतीतिजनकत्वे च। ८ तव परस्य । ९ वेदस्य । १० निश्चिता। ११ पुंभिः। १२ गुण । १३ मीमांसकमतप्रक्षेपं करोति। १४ अन्यथा। १५ प्रामाण्यमात्मानं वेनैव जानाति। १६ अत्यन्तपरोक्षत्वाद्विशानस्य । १७ मीमांसकैः। १८ प्रामाण्यशप्तौ। १९ जायमानम् । २० सन्निकर्षः। २१ अपि तु न। २२ तत्प्रतीयेत । २३ प्रामाण्यज्ञप्तिरूप । २४ प्रामाण्यशप्तेः। .
रक्कं नीलसरोजं हि वयालोके स हीष्यते। वह्वयादिः कृतकत्त्वाच्चैन्न हेतुरुपपद्यते ॥ २४०४ ॥
तत्त्वसं० पं० पृ० ६५६। 1 "यतो निश्चयस्तत्र भवन् किं निनिमित्तः उत सनिमित्तः इति कल्पनाद्वयम् । तत्र न तावन्निनिमित्तः, प्रतिनियतदेशकालस्वभावाभावप्रसङ्गात् । सनिमित्तत्त्वेऽपि किं खनिमित्त उत स्वव्यतिरिक्तनिमित्तः ॥
सन्मति० टी० पृ० १३॥