________________
सू० १११३] प्रामाण्यवादः तदेवं च प्रेमारूपं तद्वती करणं च धीः॥२॥"
[मी० श्लो० सू०२ श्लो० ५५-५६] इति । . किञ्च, प्रेमाणस्य किं कार्य यत्रास्य प्रवृत्तिः स्वयमेवोच्यतेयथार्थपरिच्छेदः, प्रमाणमिदमित्यवसायो वा? तंत्राद्यविकल्पे 'आत्मानमेव करोति' इत्यायातम् , तच्चायुक्तम्; स्वात्मनि ५ क्रियाविरोधात् । नापि प्रमाणमिदमित्यवसायः भ्रान्तिकारंणसवान केचित्तझावात् , क्वचिद्विपर्ययदर्शनाच !
अनुमानोत्पादकहेतोल्तु साध्याविनामावित्वमेव गुणो यथा तद्वैकल्यं दोपः। साध्याविनाभावस्य हेतुखरूपत्वाहणरूपत्वाभावे तद्वैकल्यस्यापि हेतोः खरूपविकलत्वाद्दोपता मा भूत्। १०
आगमस्य तु गुणवत्पुरुषप्रणीतत्वेन प्रामाण्यं सुप्रसिद्धम् , अपौरुषेयत्वस्यासिद्धः, नीलोत्पलादिषु दहनादीनां वितर्थप्रतीतिजनकत्वोपलम्भेनानेकान्तात् , परस्परविरुद्धभावनानियोगाद्यर्थेषु
१ एवं चेद्विज्ञानस्य करणरूपता क्रियारूपता न स्यादित्युक्ते आह । २ जन्मैव । ३ परिच्छित्ति । ४ वशप्ति। ५ तयोर्मध्ये । ६ स्वस्वरूपम् । ७ तत्र प्रवर्तनात्तस्य । ८ उत्पत्तिलक्षणाया। ९ सदोषनयन। १० सत्यजलझाने प्रमाणस्वभावे । ११ भ्रान्तशाने प्रमाणमित्यध्यवसायदर्शनात् । १२ शब्दख । १३ पुनः । १४ "पूर्वाचार्यो हि धात्वर्थ वेदे भट्टस्तु भावनाम् । प्राभाकरो नियोगं तु शङ्करो विधिमब्रवीत्"। १५ आगमो धर्मी प्रामाण्यं भवतीति साध्यम् । १६ वर्ण । १७ यदपौरुषेयं तत्प्रमाणमित्युक्तऽनेकान्तात् । १८ विधि। १९ बोधे। __ 1 "नच ज्ञानस्य किंञ्चित्कार्यमस्ति यत्र व्याप्रियेत। स्वार्थपरिच्छेदात्मकमस्तीति चेन्न; ज्ञानपर्यायवादस्य आत्मानमेव करोतीति सुव्याहृतमेतत् ! प्रमाणमेवत् इति निश्चयजननं खकार्यमिति चेन्नः कचिदनिश्चयाद्विपर्ययदर्शनाच ।" तत्वसं० पं. पृ० ७७० । सन्मति० टी० पृ० ११
2 "अविनाभावनिश्चयस्यैव गुणत्वात् तदनिश्चयस्य विपरीतनिश्चयस्य च दोषत्वात् ।
सन्मति० टी० पृ० ११। 3 "पुनरप्यपौरुषेयस्यानैकान्तिकतां प्रतिपादयन्नाह
न नराकृतमित्येव यथार्थज्ञानकारि तु ।
दृष्टा हि दाववढ्यादेमिथ्याशानेऽपि हेतुता ॥ २४०३ ॥ नहि पुरुषदोषोपधानादेवार्थेषु ज्ञानविभ्रमः, तद्रहितानामपि दाववढ्यादीनां नीलोत्पलादिषु वितथशानजननात् । दावो वनगतो वह्निः, स पुनर्यः स्वयमेव वेण्यादीनां सङ्घर्षसमुद्भूतः स इह व्यभिचारविषयत्वेन द्रष्टव्यः । यस्त्वरणिनिर्मथनादिपुरुषैनिवृत्तं तत्रापौरुषेयत्वासंभवात् ततो न हेतोर्व्यभिचार इति भावः । आदिशब्देन मरीच्यादिपरिग्रहः । तामेव मिथ्याज्ञानहेतुतां दर्शयन्नाह